ब्राह्मणं अपेयं अभक्ष्यं वा ग्रासयत उत्तमो दण्डः, क्षत्रियं मध्यमः, वैश्यं पूर्वः साहसदण्डः, शूद्रं चतुष्पञ्चाशत्पणो दण्डः
स्वयं ग्रसितारो निर्विषयाः कार्याः
परगृहाभिगमने दिवा पूर्वः साहसदण्डः, रात्रौ मध्यमः
दिवा रात्रौ वा सशस्त्रस्य प्रविशत उत्तमो दण्डः
भिक्षुकवैदेहकौ मत्त उन्मत्तौ बलाद् आपदि चातिसंनिकृष्टाः प्रवृत्तप्रवेशाश्चादण्ड्याः, अन्यत्र प्रतिषेधात्
स्ववेश्मनो विरात्राद् ऊर्ध्वं परिवारं आरोहतः पूर्वः साहसदण्डः, परवेश्मनो मध्यमः, ग्रामारामवाटभेदिनश्च
ग्रामेष्वन्तः सार्थिका ज्ञातसारा वसेयुः
मुषितं प्रवासितं च एषां अनिर्गतं रात्रौ ग्रामस्वामी दद्यात्
ग्रामान्तरेषु वा मुषितं प्रवासितं विवीताध्यक्षो दद्यात्
अविवीतानां चोररज्जुकः
तथाऽप्यगुप्तानां सीमावरोधेन विचयं दद्युः
असीमावरोधे पञ्चग्रामी दशग्रामी वा
दुर्बलं वेश्म शकटं अनुत्तब्धं ऊर्धस्तम्भं शस्त्रं अनपाश्रयं अप्रतिच्छन्नं श्वभ्रं कूपं कूटावपातं वा कृत्वा हिंसायां दण्डपारुष्यं विद्यात्
वृक्षच्छेदने दंयरश्मिहरणे चतुष्पदानां अदान्तसेवने वाहने वा काष्ठलोष्टपाषाणदण्डबाणबाहुविक्षेपणेषु याने हस्तिना च स्मघट्टने अपेहि इति प्रकोशन्न् अदण्ड्यः
हस्तिना रोषितेन हतो द्रोणान्नं मद्यकुम्भं माल्यानुलेपनं दन्तप्रमार्जनं च पटं दद्यात्
अश्वमेधावभृथस्नानेन तुल्यो हस्तिना वध इति पादप्रक्षालनम्
उदासीनवधे यातुरुत्तमो दण्डः
शृङ्गिणा दंष्ट्रिणा वा हिंस्यमानं अमोक्षयतः स्वामिनः पूर्वः साहसदण्डः, प्रतिक्रुष्टस्य द्विगुणः
शृङ्गिदंष्ट्रिभ्यां अन्योन्यं घातयतः तच्च तावच्च दण्डः
देवपशुं ऋषभं उक्षाणं गोकुमारीं वा वाहयतः पञ्चशतो दण्डः, प्रवासयत उत्तमः
लोमदोहवाहनप्रजनन उपकारिणां क्षुद्रपशूनां अदाने तच्च तावच्च दण्डः, प्रवासने च, अन्यत्र देवपितृकार्येभ्यः
छिन्ननस्यं भग्नयुगं तिर्यक्प्रतिमुखागतं प्रत्यासरद् वा चक्रयुक्तं याता पशुमनुष्यसम्बाधे वा हिंसायां अदण्ड्यः
अन्यथा यथा उक्तं मानुषप्राणिहिंसायां दण्डं अभ्यावहेत्
अमानुषप्राणिवधे प्राणिदानं च
बाले यातरि यानस्थः स्वामी दण्ड्यः, अस्वामिनि यानस्थः, प्राप्तव्यवहारो वा याता
बालाधिष्ठितं अपुरुषं वा यानं राजा हरेत्
कृत्याभिचाराभ्यां यत्परं आपादयेत् तद्।आपादयितव्यः
कामं भार्यायां अनिच्छन्त्यां कन्यायां वा दारार्थिनो भर्तरि भार्याया वा संवदनकरणम्
अन्यथाहिंसायां मध्यमः साहसदण्डः
मातापित्रोर्भगिनीं मातुलानीं आचार्याणीं स्नुषां दुहितरं भगिनीं वाऽधिचरतः त्रिलिङ्गच्छेदनं वधश्च
सकामा तद् एव लभेत, दासपरिचारकाहितकभुक्ता च
ब्राह्मण्यां अगुप्तायां क्षत्रियस्य उत्तमः, सर्वस्वं वैश्यस्य, शूद्रः कटाग्निना दह्येत
सर्वत्र राजभार्यागमने कुम्भीपाकः
श्वपाकीगमने कृतकबन्धाङ्कः परविषयं गच्छेत्, श्वपाकत्वं वा शूद्रः
श्वपाकस्यार्यागमने वधः, स्त्रियाः कर्णनासाच्छेदनम्
प्रव्रजितागमने चतुर्विंशतिपणो दण्डः
सकामा तद् एव लभेत
रूपाजीवायाः प्रसह्य उपभोगे द्वादशपणो दण्डः
बहूनां एकां अधिचरतां पृथक् चतुर्विंशतिपणो दण्डः
स्त्रियं अयोनौ गच्छतः पूर्वः साहसदण्डः, पुरुषं अधिमेहतश्च
मैथुने द्वादशपणः तिर्यग्योनिष्वनात्मनः ।
दैवतप्रतिमानां च गमने द्विगुणः स्मृतः
अदण्ड्यदण्डने राज्ञो दण्डः त्रिंशद्गुणोऽम्भसि ।
वरुणाय प्रदातव्यो ब्राह्मणेभ्यः ततः परम्
तेन तत् पूयते पापं राज्ञो दण्डापचारजम् ।
शास्ता हि वरुणो राज्ञां मिथ्या व्याचरतां नृषु