श्लोक ०४-१२

Kautilya Arthashastra by Acharya Chankya
सवर्णां अप्राप्तफलां प्रकुर्वतो हस्तवधः, चतुःशतो वा दण्डः
मृतायां वधः
प्राप्तफलां प्रकुर्वतो मध्यमाप्रदेशिनीवधो, द्विशतो वा दण्डः
पितुश्चावहीनं दद्यात्
न च प्राकाम्यं अकामायां लब्भेत
सकामायां चतुष्पञ्चाशत्पणो दण्डः, स्त्रियाः त्वर्धदण्डः
परशुल्कावरुद्धायां हस्तवधः, चतुःशतो वा दण्डः, शुल्कदानं च
सप्तार्तवप्रजातां वरणाद् ऊर्ध्वं अलभमानः प्रकृत्य प्राकामी स्यात्, न च पितुरवहीनं दद्यात्
ऋतुप्रतिरोधिभिः स्वाम्याद् अपक्रामति
त्रिवर्षप्रजातार्तवायाः तुल्यो गन्तुं अदोषः, ततः परं अतुल्योऽप्यनलङ्कृतायाः
पितृद्रव्यादाने स्तेयं भजेत
परं उद्दिश्यान्यस्य विन्दतो द्विशतो दण्डः
न च प्राकांयं अकामायां लभेत
कन्यां अन्यां दर्शयित्वाऽन्यां प्रयच्छतः शत्यो दण्डः तुल्यायां, हीनायां द्विगुणः
प्रकर्मण्यकुमार्याश्चतुष्पञ्चाशत्पणो दण्डः, शुल्कव्ययकर्मणी च प्रतिदद्यात्
अवस्थाय तज्जातं पश्चात्कृता द्विगुणं दद्यात्
अन्यशोणित उपधाने द्विशतो दण्डः, मिथ्याऽभिशंसिनश्च पुंसः
शुल्कव्ययकर्मणी च जीयेत
न च प्राकांयं अकामायां लभेत
स्त्रीप्रकृता सकामा समाना द्वादशपणं दण्डं दद्यात्, प्रकर्त्री द्विगुणम्
अकामायाः शत्यो दण्ड आत्मरागार्थं, शुल्कदानं च
स्वयं प्रकृता राजदास्यं गच्छेत्
बहिर्ग्रामस्य प्रकृतायां मिथ्याऽभिशंसने च द्विगुणो दण्डः
प्रसह्य कन्यां अपहरतो द्विशतः, स-सुवर्णां उत्तमः
बहूनां कन्याऽपहारिणां पृथग् यथा उक्ता दण्डाः
गणिकादुहितरं प्रकुर्वतश्चतुष्पञ्चाशत्पणो दण्डः, शुल्कं मातुर्भोगः षोडशगुणः
दासस्य दास्या वा दुहितरं अदासीं प्रकुर्वतश्चतुर्विंशतिपणो दण्डः शुल्काबन्ध्यदानं च
निष्क्रयानुरूपां दासीं प्रकुर्वतो द्वादशपणो दण्डो वस्त्राबन्ध्यदानं च
साचिव्यावकाशदाने कर्तृसमो दण्डः
प्रोषितपतिकां अपचरन्तीं पतिबन्धुः तत्पुरुषो वा सङ्गृह्णीयात्
सङ्गृहीता पतिं आकाङ्क्षेत
पतिश्चेत् क्षमेत विसृज्येत उभयम्
अक्षमायां स्त्रियाः कर्णनासाच्छेदनं, वधं जारश्च प्राप्नुयात्
जारं चोर इत्यभिहरतः पञ्चशतो दण्डः, हिरण्येन मुञ्चतः तद्ऽष्टगुणः
केशाकेशिकं सङ्ग्रहणं, उपलिङ्गनाद् वा शरीर उपभोगानां, तज्जातेभ्यः स्त्रीवचनाद् वा
परचक्राटवीहृतां ओघप्रव्यूढां अरण्येषु दुर्भिक्षे वा त्यक्तां प्रेतभाव उत्सृष्टां वा परस्त्रियं निस्तारयित्वा यथासम्भाषितं समुपभुञ्जीत
जातिविशिष्टां अकामां अपत्यवतीं निष्क्रयेण दद्यात्
चोरहस्तान्नदीवेगाद् दुर्भिक्षाद् देशविभ्रमात् ।
निस्तारयित्वा कान्तारान्नष्टां त्यक्तां मृता इति वा
भुञ्जीत स्त्रियं अन्येषां यथासम्भाषितं नरः ।
न तु राजप्रतापेन प्रमुक्तां स्वजनेन वा
न च उत्तमां न चाकामां पूर्वापत्यवतीं न च ।
ईदृशीं त्वनुरूपेण निष्क्रयेणापवाहयेत्