श्लोक ०४-११

Kautilya Arthashastra by Acharya Chankya
कलहे घ्नतः पुरुषं चित्रो घातः
सप्तरात्रस्यान्तर्मृते शुद्धवधः, पक्षस्यान्तरुत्तमः, मासस्यान्तः पञ्चशतः समुत्थानव्ययश्च
शस्त्रेण प्रहरत उत्तमो दण्डः
मदेन हस्तवधः, मोहेन द्विशतः
वधे वधः
प्रहारेण गर्भं पातयत उत्तमो दण्डः, भैषज्येन मध्यमः, परिक्लेशेन पूर्वः साहसदण्डः
प्रसभस्त्रीपुरुषघातकाभिसारकनिग्राहकावघोषकावस्कन्दक उपवेधकान् पथिवेश्मप्रतिरोधकान् राजहस्त्य्ऽश्वरथानां हिंसकान् स्तेनान् वा शूलान् आरोहयेयुः
यश्च एनान् दहेद् अपनयेद् वा स तं एव दण्डं लभेत, साहसं उत्तमं वा
हिंस्रस्तेनानां भक्तवास उपकरणाग्निमन्त्रदानवैयावृत्यकर्मसु उत्तमो दण्डः, परिभाषणं अविज्ञाते
हिंस्रस्तेनानां पुत्रदारं असमन्त्रं विसृजेत्, समन्त्रं आददीत
राज्यकामुकं अन्तःपुरप्रधर्षकं अटव्य्ऽमित्र उत्साहकं दुर्गराष्ट्रदण्डकोपकं वा शिरोहस्तप्रदीपिकं घातयेत्
ब्राह्मणं तमः प्रवेशयेत्
मातृपितृपुत्रभ्रात्र्।आचार्यतपस्विघातकं वाऽत्वक्षिरःप्रादीपिकं घातयेत्
तेषां आक्रोशे जिह्वाच्छेदः, अङ्गाभिरदने तद्ऽङ्गान् मोच्यः
यदृच्छाघाते पुंसः पशुयूथस्तेये च शुद्धवधः
दशावरं च यूथं विद्यात्
उदकधारणं सेतुं भिन्दतः तत्र एवाप्सु निमज्जनं, अनुदकं उत्तमः साहसदण्डः, भग्न उत्सृष्टकं मध्यमः
विषदायकं पुरुषं स्त्रियं च पुरुषघ्नीं अपः प्रवेशयेद् अगर्भिणीं, गर्भिणीं मासावरप्रजाताम्
पतिगुरुप्रजाघातिकां अग्निविषदां सन्धिच्छेदिकां वा गोभिः पाटयेत्
विवीतक्षेत्रखलवेश्मद्रव्यहस्तिवनादीपिकं अग्निना दाहयेत्
राजाक्रोशकमन्त्रभेदकयोरनिष्टप्रवृत्तिकस्य ब्राह्मणमहानसावलेहिनश्च जिह्वां उत्पाटयेत्
प्रहरणावरणस्तेनं अनायुधीयं इषुभिर्घातयेत्
आयुधीयस्य उत्तमः
मेढ्रफल उपघातिनः तद् एवच्छेदयेत्
जिह्वानास उपघाते सन्दंशवधः
एते शास्त्रेष्वनुगताः क्लेशदण्डा महात्मनाम् ।
अक्लिष्टानां तु पापानां धर्म्यः शुद्धवधः स्मृतः