श्लोक ०४-१०

Kautilya Arthashastra by Acharya Chankya
तीर्थघातग्रन्थिभेद ऊर्ध्वकराणां प्रथमेऽपराधे सन्देशच्छेदनं चतुष्पञ्चाशत्पणो वा दण्डः, द्वितीये छेदनं पणस्य शत्यो वा दण्डः, तृतीये दक्षिणहस्तवधश्चतुःशतो वा दण्डः, चतुर्थे यथाकामी वधः
पञ्चविंशतिपणावरेषु कुक्कुटनकुलमार्जारश्वसूकरस्तेयेषु हिंसायां वा चतुष्पञ्चाशत्पणो दण्डः, नासाग्रच्छेदनं वाचण्डालारण्यचराणां अर्धदण्डाः
पाशजालकूटावपातेषु बद्धानां मृगपशुपक्षिव्यालमत्स्यानां आदाने तच्च तावच्च दण्डः
मृगद्रव्यवनान् मृगद्रव्यापहारे शात्यो दण्डः
बिम्बविहारमृगपक्षिस्तेये हिंसायां वा द्विगुणो दण्डः
कारुशिल्पिकुशीलवतपस्विनां क्षुद्रकद्रव्यापहारे शत्यो दण्डः, स्थूलकद्रव्यापहारे द्विशतः, कृषिद्रव्यापहारे च
दुर्गं अकृतप्रवेशस्य प्रविशतः प्राकारच्छिद्राद् वा निक्षेपं गृहीत्वाऽपसरतः काण्डरावधो, द्विशातो वा दण्डः
चक्रयुक्तं नावं क्षुद्रपशुं वाऽपहरत एकपादवधः, त्रिशतो वा दण्डः
कूटकाकण्य्ऽक्षारालाशलाकाहस्तविषमकारिण एकहस्तवधः, चतुःशतो वा दण्डः
स्तेनपारदारिकयोः साचिव्यकर्मणि स्त्रियाः सङ्गृहीतायाश्च कर्णनासाच्छेदनं, पञ्चशतो वा दण्डः, पुंषो द्विगुणः
महापशुं एकं दासं दासीं वाऽपहरतः प्रेतभाण्डं वा विक्रीणानस्य द्विपादवधः, षट्छतो वा दण्डः
वर्ण उत्तमानां गुरूणां च हस्तपादलङ्घने राजयानवाहनाद्य्।आरोहणे च एकहस्तपादवधः, सप्तशतो वा दण्डः
शूद्रस्य ब्राह्मणवादिनो देवद्रव्यं अवस्तृणतो राजद्विष्टं आदिशतो द्विनेत्रभेदिनश्च योगाञ्जनेनान्धत्वं, अष्टशतो वा दण्डः
चोरं पारदारिकं वा मोक्षयतो राजशासनं ऊनं अतिरिक्तं वा लिखतः कन्यां दासीं वा स-हिरण्यं अपरहतः कूटव्यवहारिणो विमांसविक्रयिणश्च वामहस्तद्विपादवधो, नवशतो वा दण्डः
मानुषमांसविक्रये वधः
देवपशुप्रतिमामनुष्यक्षेत्रगृहहिरण्यसुवर्णरत्नसस्यापहारिण उत्तमो दण्डः, शुद्धवधो वा
पुरुषं चापराधं च कारणं गुरुलाघवम् ।
अनुबन्धं तदात्वं च देशकालौ समीक्ष्य च
उत्तमावरमध्यत्वं प्रदेष्टा दण्डकर्मणि ।
राज्ञश्च प्रकृतीनां च कल्पयेद् अन्तरा स्थितः