समाहर्तृप्रदेष्टारः पूर्वं अध्यक्षाणां अध्यक्षपुरुषाणां च नियमनं कुर्युः
खनिसारकर्मान्तेभ्यः सारं रत्नं वाऽपहरतः शुद्धवधः
फल्गुद्रव्यकर्मान्तेभ्यः फल्गु द्रव्यं उपस्करं वा पूर्वः साहसदण्डः
पण्यभूमिभ्यो वा राजपण्यं माषमूल्याद् ऊर्ध्वं आपादमूल्याद् इत्यपहरतो द्वादशपणो दण्डः, आद्विपादमूल्याद् इति चतुर्विंशतिपणः, आत्रिपादमूल्याद् इति षट्त्रिंशत्पणः, आपणमूल्याद् इत्यष्टचत्वारिंशत्पणः, आद्विपणमूल्याद् इति पूर्वः साहसदण्डः, आचतुष्पणमूल्याद् इति मध्यमः, आऽष्टपणमूल्याद् इत्युत्तमः, आदशपणमूल्याद् इति वधः
कोष्ठपण्यकुप्यायुधागारेभ्यः कुप्यभाण्ड उपस्करापहारेष्वर्धमूल्येषु एत एव दण्डाः
कोशभाण्डागाराक्षशालाभ्यश्चतुर्भागमूल्येषु एत एव द्विगुणा दण्डाः
चोराणां अभिप्रधर्षणे चित्रो घातः
इति राजपरिग्रहेषु व्याख्यातम्
बाह्येषु तु - प्रच्छन्नं अहनि क्षेत्रखलवेश्मापणेभ्यः कुप्यभाण्डं उपस्करं वा माषमूल्याद् ऊर्ध्वं आपादमूल्याद् इत्यपहरतः त्रिपणो दण्डः, गोमयप्रदेहेन वा प्रलिप्यावघोषणम् आद्विपादमूल्याद् इति षट्पणः, गोमयभस्मना वा प्रलिप्यावघोषणं, आत्रिपादमूल्याद् इति नवपणः, गोमयभस्मना वा प्रलिप्यावघोषणं, शरावमेखलया वा।आपणमूल्याद् इति द्वादशपणः, मुण्डनं प्रव्राजनं वा।आद्विपणमूल्याद् इति चतुर्विंशतिपणः, मुण्डस्य इष्टकाशकलेन प्रव्राजनं वा।आचतुष्पणमूल्याद् इति षट्त्रिंशत्पणः आपञ्चपणमूल्याद् इत्यष्टचत्वारिंशत्पणः, आदशपणमूल्याद् इति पूर्वः साहसदण्डः आविंशतिपणमूल्याद् इत् द्विशतः आत्रिंशत्पणमूल्याद् इति पञ्चशतः आचत्वारिंशत्पणमूल्याद् इति साहस्रः आपञ्चाशत्पणमूल्याद् इति वधः
प्रसह्य दिवा रात्रौ वाऽऽन्तर्यामिकं अपहरतोऽर्धमूल्येषु एत एव दण्डाः
प्रसह्य दिवा रात्रौ वा स-शस्त्रस्यापहरतश्चतुर्भागमूल्येषु एत एव द्विगुणा दण्डाः
कुटुम्बिकाध्यक्षमुख्यस्वामिनां कूटशासनमुद्राकर्मसु पूर्वमध्य उत्तमवधा दण्डाः, यथाऽपराधं वा
धर्मस्थश्चेद् विवदमानं पुरुषं तर्जयति भर्त्सयत्यपसारयत्यभिग्रसते वा पूर्वं अस्मै साहसदण्डं कुर्यात्, वाक्पारुष्ये द्विगुणम्
पृच्छ्यं न पृच्छति, अपृच्छ्यं पृच्छति, पृष्ट्वा वा विसृजति, शिक्षयति, स्मारयति, पूर्वं ददाति वा, इति मध्यमं अस्मै साहसदण्डं कुर्यात्
देयं देशं न पृच्छति, अदेयं देशं पृच्छति, कार्यं अदेशेनातिवाहयति, छलेनातिहरति, कालहरणेन श्रान्तं अपवाहयति, मार्गापन्नं वाक्यं उत्क्रमयति, मतिसाहाय्यं साक्षिभ्यो ददाति, तारितानुशिष्टं कार्यं पुनरपि गृह्णाति, उत्तमं अस्मै साहसदण्डं कुर्यात्
पुनर्ऽपराधे द्विगुणं स्थानाद् व्यवरोपणं च
लेखकश्चेद् उक्तं न लिखति, अनुक्तं लिखति, दुरुक्तं उपलिखति, सूक्तं उल्लिखति, अर्थ उत्पत्तिं वा विकल्पयति, इति पूर्वं अस्मै साहसदण्डं कुर्याद्, यथाऽपराधं वा
धर्मस्थः प्रदेष्टा वा हैरण्यदण्डं अदण्ड्ये क्षिपति क्षेपद्विगुणं अस्मै दण्डं कुर्यात्, हीनातिरिक्ताष्टगुणं वा
शरीरदण्डं क्षिपति शारीरं एव दण्डं भजेत, निष्क्रयद्विगुणं वा
यं वा भूतं अर्थं नाशयति अभूतं अर्थं करोति तद्ऽष्टगुणं दण्डं दद्यात्
धर्मस्थीये चारके बन्धनागारे वा शय्याऽऽसनभोजन उच्चारसञ्चाररोधबन्धनेषु त्रिपण उत्तरा दण्डाः कर्तुः कारयितुश्च
चारकाद् अभियुक्तं मुञ्चतो निष्पातयतो वा मध्यमः साहसदण्डः, अभियोगदानं च, बन्धनागारात् सर्वस्वं वधश्च
बन्धनागाराध्यक्षस्य संरुद्धकं अनाख्याय चारयतश्चतुर्विंशतिपणो दण्डः, कर्म कारयतो द्विगुणः, स्थानान्यत्वं गमयतोऽन्नपानं वा रुन्धतः षण्ँअवतिर्दण्डः, परिक्लेशयत उत्कोटयतो वा मध्यमः साहसदण्डः, घ्नतः साहस्रः
परिगृहीतां दासीं आहितिकां वा संरुद्धिकां अधिचरतः पूर्वः साहसदण्डः, चोरड़ामरिकभार्यां मध्यमः, संरुद्धिकां आर्यां उत्तमः
संरुद्धस्य वा तत्र एव घातः
तद् एवाक्षणगृहीतायां आर्यायां विद्यात्, दास्यां पूर्वः साहसदण्डः
चारकं अभित्त्वा निष्पातयतो मध्यमः, भित्त्वा वधः, बन्धनागारात् सर्वस्वं वधश्च
एवं अर्थचरान् पूर्वं राजा दण्डेन शोधयेत् ।
शोधयेयुश्च शुद्धाः ते पौरजानपदान् दमैः