श्लोक ०४-०८

Kautilya Arthashastra by Acharya Chankya
मुषितसंनिधौ बाह्यानां अभ्यन्तराणां च साक्षिणां अभिशस्तस्य देशजातिगोत्रनामकर्मसारसहायनिवासान् अनुयुञ्जीत
तांश्चापदेशैः प्रतिसमानयेत्
ततः पूर्वस्याह्नः प्रचारं रात्रौ निवासं च ग्रहणाद् इत्यनुयुञ्जीत
तस्यापसारप्रतिसन्धाने शुद्धः स्यात्, अन्यथा कर्मप्राप्तः
त्रिरात्राद् ऊर्ध्वं अग्राह्यः शङ्कितकः पृच्छाऽभावाद् अन्यत्र उपकरणदर्शनात्
अचोरं चोर इत्यभिव्याहरतश्चोरसमो दण्डः, चोरं प्रच्छादयतश्च
चोरेणाभिशस्तो वैरद्वेषाभ्यां अपदिष्टकः शुद्धः स्यात्
शुद्धं परिवासयतः पूर्वः साहसदण्डः
शङ्कानिष्पन्नं उपकरणमन्त्रिसहायरूपवैयावृत्यकरान्निष्पादयेत्
कर्मणश्च प्रदेशद्रव्यादानांशविभागैः प्रतिसमानयेत्
एतेषां कारणानां अनभिसन्धाने विप्रलपन्तं अचोरं विद्यात्
दृश्यते ह्यचोरोऽपि चोरमार्गे यदृच्छया संनिपाते चोरवेषशस्त्रभाण्डसामान्येन गृह्यमाणश्चोरभाण्डस्य उपवासेन वा, यथाऽणिमाण्डव्यः कर्मक्लेशभयाद् अचोरः चोरोऽस्मि इति ब्रुवाणः
तस्मात् समाप्तकरणं नियमयेत्
मन्दापराधं बालं वृद्धं व्याधितं मत्तं उन्मत्तं क्षुत्पिपासाऽध्वक्लान्तं अत्याशितं आमकाशितं दुर्बलं वा न कर्म कारयेत्
तुल्य शीलपुंश्चलीप्रापाविककथाऽवकाशभोजनदातृभिरपसर्पयेत्
एवं अतिसन्दध्यात्, यथा वा निक्षेपापहारे व्याख्यातम्
आप्तदोषं कर्म कारयेत्, न त्वेव स्त्रियं गर्भिणीं सूतिकां वा मासावरप्रजाताम्
स्त्रियाः त्वर्धकर्म, वाक्यानुयोगो वा
ब्राह्मणस्य सत्त्रिपरिग्रहः श्रुतवतः तपस्विनश्च
तस्यातिक्रम उत्तमो दण्डः कर्तुः कारयितुश्च, कर्मणा व्यापादनेन च
व्यावहारिकं कर्मचतुष्कं - षड् दण्डाः, सप्त कशाः, द्वावुपरिनिबन्धौ, उदकनालिका च
परं पापकर्मणां नव वेत्रलताः, द्वादश कशाः, द्वावूरुवेष्टौ, विंशतिर्नक्तमाललताः, द्वात्रिंशत्तलाः, द्वौ वृश्चिकबन्धौ, उल्लम्बने च द्वे, सूची हस्तस्य, यवागूपीतस्य एकपर्वदहनं अङ्गुल्याः, स्नेहपीतस्य प्रतापनं एकं अहः, शिशिररात्रौ बल्बजाग्रशय्या च
इत्यष्टादशकं कर्म
तस्य उपकरणं प्रमाणं प्रहरणं प्रधरणं अवधारणं च खरपट्टाद् आगमयेत्
दिवसान्तरं एक एकं च कर्म कारयेत्
पूर्वकृतापदानं प्रतिज्ञायापहरन्तं एकदेशदृष्टद्रव्यं कर्मणा रूपेण वा गृहीतं राजकोशं अवस्तृणन्तं कर्मवध्यं वा राजवचनात् समस्तं व्यस्तं अभ्यस्तं वा कर्म कारयेत्
सर्वापराधेष्वपीडनीयो ब्राह्मणः
तस्याभिशस्ताङ्को ललाटे स्याद् व्यवहारपतनाय, स्तेयो श्वा, मनुष्यवधे कबन्धः, गुरुतल्पे भगं, सुरापाने मद्यध्वजः
ब्राह्मणं पापकर्माणं उद्घुष्याङ्ककृतव्रणम् ।
कुर्यान्निर्विषयं राजा वासयेद् आकरेषु वा