तैलाभ्यक्तं आशुमृतकं परीक्षेत
निष्कीर्णमूत्रपुरीषं वातपूर्णकोष्ठत्वक्कं शूनपादपाणिमान् मीलिताक्षं सव्यञ्जनकण्ठं पीटननिरुद्ध उच्छ्वासहतं विद्यात्
तं एव सङ्कुचितबाहुसक्थिं उद्बन्धहतं विद्यात्
शूनपाणिपाद उदरं अपगताक्षं उद्वृत्तनाभिं अवरोपितं विद्यात्
निस्तब्धगुदाक्षं सन्दष्टजिह्वं आध्मात उदरं उदकहतं विद्यात्
शोणितानुसिक्तं भग्नभिन्नगात्रं काष्ठैरश्मभिर्वा हतं विद्यात्
सम्भग्नस्फुटितगात्रं अवक्षिप्तं विद्यात्
श्यावपाणिपाददन्तनखं शिथिलमांसरोमचर्माणं फेन उपदिग्धमुखं विषहतं विद्यात्
तं एव स-शोणितदंशं सर्पकीटहतं विद्यात् ।
विक्षिप्तवस्त्रगात्रं अतिवन्तविरिक्तं मदनयोगहतं विद्यात्
अतोऽन्यतमेन कारणेन हतं हत्वा वा दण्डभयाद् उद्बद्धनिकृत्तकण्ठं विद्यात्
विषहतस्य भोजनशेषं वयोभिः परीक्षेत
हृदयाद् उद्धृत्याग्नौ प्रक्षिप्तं चिटिचिटायद्।इन्द्रधनुर्वर्णं वा विषयुक्तं विद्यात्, दग्धस्य हृदयं अदग्धं दृष्ट्वा वा
तस्य परिचारकजनं वाग्दण्डपारुष्यातिलब्धं मार्गेत, दुःख उपहतं अन्यप्रसक्तं वा स्त्रीजनं, दायवृत्तिस्त्रीजनाभिमन्तारं वा बन्धुम्
तद् एव हत उद्बद्धस्य परीक्षेत
स्वयं उद्बद्धस्य वा विप्रकारं अयुक्तं मार्गेत
सर्वेषां वा स्त्रीदायाद्यदोषः कर्मस्पर्धा प्रतिपक्षद्वेषः पण्यसंस्थासमवायो वा विवादपदानां अन्यतमद् वा रोषस्थानम्
रोषनिमित्तो घातः
स्वयं।आदिष्टपुरुषैर्वा, चोरैरर्थनिमित्तं, सादृश्याद् अन्यवैरिभिर्वा हतस्य घातं आसन्नेभ्यः परीक्षेत
येनाहूतः सह स्थितः प्रस्थितो हतभूमिं आनीतो वा तं अनुयुञ्जीत
ये चास्य हतभूमावासन्नचराः तान् एक एकशः पृच्छेत् केनायं इहानीतो हतो वा, कः सशस्त्रः सङ्गूहमान उद्विग्नो वा युष्माभिर्दृष्टः इति
ते यथा ब्रूयुः तथाऽनुयुञ्जीत
अनाथस्य शरीरस्थं उपभोगं परिच्छदम् ।
वस्त्रं वेषं विभूषां वा दृष्ट्वा तद्व्यवहारिणः
अनुयुञ्जीत संयोगं निवासं वासकारणम् ।
कर्म च व्यवहारं च ततो मार्गणं आचरेत्
रज्जुशस्त्रविषैर्वाऽपि कामक्रोधवशेन यः ।
घातयेत् स्वयं आत्मानं स्त्री वा पापेन मोहिता
रज्जुना राजमार्गे तांश्चण्डालेनापकर्षयेत् ।
न श्मशानविधिः तेषां न सम्बन्धिक्रियाः तथा
बन्धुः तेषां तु यः कुर्यात् प्रेतकार्यक्रियाविधिम् ।
तद्गतिं स चरेत् पश्चात् स्वजनाद् वा प्रमुच्यते
संवत्सरेण पतति पतितेन समाचरन् ।
याजनाध्यापनाद् यौनात् तैश्चान्योऽपि समाचरन्