लोकयात्राविद् राजानं आत्मद्रव्यप्रकृतिसम्पन्नं प्रियहितद्वारेणाश्रयेत
यं वा मन्येत यथाऽहं आश्रय ईप्सुरेवं असौ विनय ईप्सुराभिगामिकगुणयुक्तः इति, द्रव्यप्रकृतिहीनं अप्येनं आश्रयेत, न त्वेवानात्मसम्पन्नम्
अनात्मवा हि नीतिशास्त्रद्वेषाद् अनर्थ्यसंयोगाद् वा प्राप्यापि महद् ऐश्वर्यं न भवति
आत्मवति लब्धावकाशः शास्त्रानुयोगं दद्यात्
अविसंवादाद्द् हि स्थानस्थैर्यं अवाप्नोति
मतिकर्मसु पृष्ठः तदात्वे चायत्यां च धर्मार्थसंयुक्तं समर्थं प्रवीणवद् अपरिषद्भीरुः कथयेत्
ईप्सितः पणेत धर्मार्थानुयोगं अविशिष्टेषु बलवत्संयुक्तेषु दण्डधारणं मत्संयोगे तदात्वे च दण्डधारणं इति न कुर्याः, पक्षं वृत्तिं गुह्यं च मे न उपहन्याः, संज्ञया च त्वां कामक्रोधदण्डनेषु वारयेयम् इति
आदिष्टः प्रदिष्टायां भूमावनुज्ञातः प्रविशेत्, उपविशेच्च पार्श्वतः संनिकृष्टविप्रकृष्टः परासनम्
विगृह्य कथनं असभ्यं अप्रत्यक्षं अश्रद्धेयं अनृतं च वाक्यं उच्चैरनर्मणि हासं वातष्ठीवने च शब्दवती न कुर्यात्
मिथः कथनं अन्येन, जनवादे द्वन्द्वकथनं, राज्ञो वेषं उद्धतकुहकानां च, रत्नातिशयप्रकाशाभ्यर्थनं, एकाक्ष्य्।ओष्ठनिर्भोगं भ्रुकुटीकर्म वाक्यावक्षेपणं च ब्रुवति, बलवत् संयुक्तविरोधं, स्त्रीभिः स्त्रीदर्शिभिः सामन्तदूतैर्द्वेष्यपक्षावक्षिप्तान् अर्थ्यैश्च प्रतिसंसर्गं एकार्थचर्यां सङ्घातं च वर्जयेत्
अहीनकालं राजार्थं स्वार्थं प्रियहितैः सह ।
परार्थं देशकाले च ब्रूयाद् धर्मार्थसंहितम्
पृष्टः प्रियहितं ब्रूयान्न ब्रूयाद् अहितं प्रियम् ।
अप्रियं वा हितं ब्रूयात्शृण्वतोऽनुमतो मिथः
तूष्णीं वा प्रतिवाक्ये स्याद् वेष्यादींश्च न वर्णयेत् ।
अप्रिया अपि दक्षाः स्युः तद्भावाद् ये बहिष्कृताः
अनर्थ्याश्च प्रिया दृष्टाश्चित्तज्ञानानुवर्तिनः ।
अभिहास्येष्वभिहसेद् घोरहासांश्च वर्जयेत् (इति)
परात् सङ्क्रामयेद् घोरं न च घोरं परे वदेत् ।
तितिक्षेतात्मनश्चैव क्षमावान् पृथिवीसमः
आत्मरक्षा हि सततं पूर्वं कार्या विजानता ।
अग्नाविव हि सम्प्रोक्ता वृत्ती राजा उपजीविनाम्
एकदेशं दहेद् अग्निः शरीरं वा परं गतः ।
स-पुत्रदारं राजा तु घातयेद् अर्धयेत वा