श्लोक ०४-०२

Kautilya Arthashastra by Acharya Chankya
संस्थाऽध्यक्षः पण्यसंस्थायां पुराणभाण्डानां स्वकरणविशुद्धानां आधानं विक्रयं वा स्थापयेत्
तुलामानभाण्डानि चावेक्षेत पौतवापचारात्
परिमाणीद्रोणयोरर्धपलहीनातिरिक्तं अदोषः
पलहीनातिरिक्ते द्वादशपणो दण्डः
तेन पल उत्तरा दण्डवृद्धिर्व्याख्याता
तुलायाः कर्षहीनातिरिक्तं अदोषः
द्विकर्षहीनातिरिक्ते षट्पणो दण्डः
तेन कर्ष उत्तरा दण्डवृद्धिर्व्याख्याता
आढकस्यार्धकर्षहीनातिरिक्तं अदोषः
कर्षहीनातिरिक्ते त्रिपणो दण्डः
तेन कर्ष उत्तरा दण्डवृद्धिर्व्याख्याता
तुलामानविशेषाणां अतोऽन्येषां अनुमानं कुर्यात्
तुलामानाभ्यां अतिरिक्ताभ्यां क्रीत्वा हीनाभ्यां विक्रीणानस्य त एव द्विगुणा दण्डाः
गण्यपण्येष्वष्टभागं पण्यमूल्येष्वपहरतः षण्ँअवतिर्दण्डः
काष्ठलोहमणिमयं रज्जुचर्ममृण्मयं सूत्रवल्करोममयं वा जात्यं इत्यजात्यं विक्रयाधानं नयतो मूल्याष्टगुणो दण्डः
सारभाण्डं इत्यसारभाण्डं तज्जातं इत्यतज्जातं राधायुक्तं इत्युपधियुक्तं समुद्गपरिवर्तिमं वा विक्रयाधानं नयतो हीनमूल्यं चतुष्पञ्चाशत्पणो दण्डः, पणमूल्यं द्विगुणो, द्विपणमूल्यं द्विशतः
तेनार्घवृद्धौ दण्डवृद्धिर्व्याख्याता
कारुशिल्पिनां कर्मगुणापकर्षं आजीवं विक्रयक्रय उपघातं वा सम्भूय समुत्थापयतां सहस्रं दण्डः
वैदेहकानां वा सम्भूय पण्यं अवरुन्धतां अनर्घेण विक्रीणतां वा सहस्रं दण्डः
तुलामानान्तरं अर्घवर्णान्तरं वा - धरकस्य मायकस्य वा पणमूल्याद् अष्टभागं हस्तदोषेणाचरतो द्विशतो दण्डः
तेन द्विशत उत्तरा दण्डवृद्धिर्व्याख्याता
धान्यस्नेहक्षारलवणगन्धभैषज्यद्रव्याणां समवर्ण उपधाने द्वादशपणो दण्डः
यन्निषृष्टं उपजीवेयुः तद् एषां दिवससञ्जातं सङ्ख्याय वणिक् स्थापयेत्
क्रेतृविक्रेत्रोरन्तरपतितं आदायाद् अन्यद् भवति
तेन धान्यपण्यनिचयांश्चानुज्ञाताः कुर्युः
अन्यथानिचितं एषां पण्याध्यक्षो गृह्णीयात्
तेन धान्यपण्यविक्रये व्यवहरेतानुग्रहेण प्रजानाम्
अनुज्ञातक्रयाद् उपरि च एषां स्वदेशीयानां पण्यानां पञ्चकं शतं आजीवं स्थापयेत्, परदेशीयानां दशकम्
ततः परं अर्घं वर्धयतां क्रये विक्रये वा भावयतां पणशते पञ्चपणाद् द्विशतो दण्डः
तेनार्घवृद्धौ दण्डवृद्धिर्व्याख्याता
सम्भूयक्रये च एषां अविक्रीते नान्यं सम्भूयक्रयं दद्यात्
पण्य उपघाते च एषां अनुग्रहं कुर्यात्
पण्यबाहुल्यात् पण्याध्यक्षः सर्वपण्यान्येकमुखानि विक्रीणीत
तेष्वविक्रीतेषु नान्ये विक्रीणीरन्
तानि दिवसवेतनेन विक्रीणीरन्न् अनुग्रहेण प्रजानाम्
देशकालान्तरितानां तु पण्यानां - प्रक्षेपं पण्यनिष्पत्तिं शुल्कं वृद्धिं अवक्रयम् ।
व्ययान् अन्यांश्च सङ्ख्याय स्थापयेद् अर्घं अर्घवित्