श्लोक ०४-०१

Kautilya Arthashastra by Acharya Chankya
प्रदेष्टारः त्रयः त्रयोऽमात्याः कण्टकशोधनं कुर्युः
अर्थ्यप्रतीकाराः कारुशासितारः संनिक्षेप्तारः स्ववित्तकारवः श्रेणीप्रमाणा निक्षेपं गृह्णीयुः
विपत्तौ श्रेणी निक्षेपं भजेत
निर्दिष्टदेशकालकार्यं च कर्म कुर्युः, अनिर्दिष्टदेशकालं कार्यापदेशम्
कालातिपातने पादहीनं वेतनं तद्द्विगुणश्च दण्डः
अन्यत्र भ्रेष उपनिपाताभ्यां नष्टं विनष्टं वाऽभ्यावहेयुः
कार्यस्यान्यथाकरणे वेतननाशः तद्द्विगुणश्च दण्डः
तन्तुवाया दश एकादशिकं सूत्रं वर्धयेयुः
वृद्धिच्छेदे छेदद्विगुणो दण्डः
सूत्रमूल्यं वानवेतनं, क्षौमकौशेयानां अध्यर्धगुणं, पत्त्र ऊर्णाकम्बलदुकूलानां द्विगुणम्
मानहीने हीनावहीनं वेतनं तद्द्विगुणश्च दण्डः, तुलाहीने हीनचतुर्गुणो दण्डः, सूत्रपरिवर्तने मूल्यद्विगुणः
तेन द्विपटवानं व्याख्यातम्
ऊर्णातुलायाः पञ्चपलिको विहननच्छेदो रोमच्छेदश्च
रजकाः काष्ठफलकश्लक्ष्णशिलासु वस्त्राणि नेनिज्युः
अन्यत्र नेनिजतो वस्त्र उपघातं षट्पणं च दण्डं दद्युः
मुद्गराङ्काद् अन्यद् वासः परिदधानाः त्रिपणं दण्डं दद्युः
परवस्त्रविक्रयावक्रयाधानेषु च द्वादशपणो दण्डः, परिवर्तने मूल्यद्विगुणो वस्त्रदानं च
मुकुलावदातं शिलापट्टशुद्धं धौतसूत्रवर्णं प्रमृष्टश्वेतं च एकरात्र उत्तरं दद्युः
पञ्चरात्रिकं तनुरागं, षड्रात्रिकं नीलं, पुष्पलाक्षामञ्जिष्ठारक्तं गुरुपरिकर्म यत्न उपचार्यं जात्यं वासः सप्तरात्रिकम्
ततः परं वेतनहानिं प्राप्नुयुः
श्रद्धेया रागविवादेषु वेतनं कुशलाः कल्पयेयुः
परार्ध्यानां पणो वेतनं, मध्यमानां अर्धपणः, प्रत्यवराणां पादः, स्थूलकानां माषकद्विमाषकं, द्विगुणं रक्तकानाम्
प्रथमनेजने चतुर्भागः क्षयः, द्वितीये पञ्चभागः
तेन उत्तरं व्याख्यातम्
रजकैः तुन्नवाया व्याख्याताः
सुवर्णकाराणां अशुचिहस्ताद् रूप्यं सुवर्णं अनाख्याय सरूपं क्रीणतां द्वादशपणो दण्डः, विरूपं चतुर्विंशतिपणः, चोरहस्ताद् अष्टचत्वारिंशत्पणः
प्रच्छन्नविरूपमूल्यहीनक्रयेषु स्तेयदण्डः, कृतभाण्ड उपधौ च
सुवर्णान् माषकं अपहरतो द्विशतो दण्डः, रूप्यधरणान् माषकं अपहरतो द्वादशपणः
तेन उत्तरं व्याख्यातम्
वर्ण उत्कर्षं अपसारणं योगं वा साधयतः पञ्चशतो दण्डः
तयोरपचरणे रागस्यापहारं विद्यात्
माषको वेतनं रूप्यधरणस्य, सुवर्णस्याष्टभागः
शिक्षाविशेषेण द्विगुणो वेतनवृद्धिः
तेन उत्तरं व्याख्यातम्
ताम्रवृत्तकंसवैकृन्तकारकूटकानां पञ्चकं शतं वेतनम्
ताम्रपिण्डो दशभागक्षयः
पलहीने हीनद्विगुणो दण्डः
तेन उत्तरं व्याख्यातम्
सीसत्रपुपिण्डो विंशतिभागक्षयः
काकणी चास्य पलवेतनम्
कालायसपिण्डः पञ्चभागक्षयः
काकणीद्वयं चास्य पलवेतनम्
तेन उत्तरं व्याख्यातम्
रूपदर्शकस्य स्थितां पणयात्रां अकोप्यां कोपयतः कोप्यां अकोपयतो द्वादशपणो दण्डः
व्याजीपरिशुद्धौ पणयात्रा
पणान् माषकं उपजीवतो द्वादशपणो दण्डः
तेन उत्तरं व्याख्यातम्
कूटरूपं कारयतः प्रतिगृह्णतो निर्यापयतो वा सहस्रं दण्डः, कोशे प्रक्षिपतो वधः
चरकपांसुधावकाः सारत्रिभागं, द्वौ राजा रत्नं च
रत्नापहार उत्तमो दण्डः
खनिरत्ननिधिनिवेदनेषु षष्ठं अंशं निवेत्ता लभेत, द्वादशं अंशं भृतकः
शतसहस्राद् ऊर्ध्वं राजगामी निधिः
ऊने षष्ठं अंशं दद्यात्
पौर्वपौरुषिकं निधिं जानपदः शुचिः स्वकरणेन समग्रं लभेत
स्वकरणाभावे पञ्चशतो दण्डः, प्रच्छन्नादाने सहस्रम्
भिषजः प्राणाबाधिकं अनाख्याय उपक्रममाणस्य विपत्तौ पूर्वः साहसदण्डः, कर्मापराधेन विपत्तौ मध्यमः
मर्मवधवैगुण्यकरणे दण्डपारुष्यं विद्यात्
कुशीलवा वर्षारात्रं एकस्था वसेयुः
कामदानं अतिमात्रं एकस्यातिवादं च वर्जयेयुः
तस्यातिक्रमे द्वादशपणो दण्डः
कामं देशजातिगोत्रचरणमैथुनावहासेन नर्मयेयुः
कुशीलवैश्चारणा भिक्षुकाश्च व्याख्याताः
तेषां अयःशूलेन यावतः पणान् अभिवदेयुः तावन्तः शिफाप्रहारा दण्डाः
शेषाणां कर्मणां निष्पत्तिवेतनं शिल्पिनां कल्पयेत्
एवं चोरान् अचोराख्यान् वणिक्कारुकुशीलवान् ।
भिक्षुकान् कुहकांश्चान्यान् वारयेद् देशपीडनात्