द्यूताध्यक्षो द्यूतं एकमुखं कारयेत्
अन्यत्र दीव्यतो द्वादशपणो दण्डो गूढाजीविज्ञापनार्थम्
द्यूताभियोगे जेतुः पूर्वः साहसदण्डः, पराजितस्य मध्यमः
बालिशजातीयो ह्येष जेतुकामः पराजयं न क्षमते इत्याचार्याः
न इत्य्कौटिल्यः
पराजितश्चेद् द्विगुणदण्डः क्रियेत न कश्चन राजानं अभिसरिष्यति
प्रायशो हि कितवाः कूटदेविनः
तेषां अध्यक्षाः शुद्धाः काकणीरक्षांश्च स्थापयेयुः
काकण्य्ऽक्षाणां अन्य उपधाने द्वादशपणो दण्डः, कूटकर्मणि पूर्वः साहसदण्डो जितप्रत्यादानं, उपधौ स्तेयदण्डश्च
जितद्रव्याद् अध्यक्षः पञ्चकं शतं आददीत, काकण्य्ऽक्षारालाशलाकाऽवक्रयं उदकभूमिकर्मक्रयं च
द्रव्याणां आधानं विक्रयं च कुर्यात्
अक्षभूमिहस्तदोषाणां चाप्रतिषेधने द्विगुणो दण्डः
तेन समाह्वयो व्याख्यातः, अन्यत्र विद्याशिल्पसमाह्वयात् । इति
प्रकीर्णकं तु - याचितकावक्रीतकाहितकनिक्षेपकाणां यथादेशकालं अदाने, यामच्छायासमुपवेशसंस्थितीनां वा देशकालातिपातने, गुल्मतरदेयं ब्राह्मणं साधयतः, प्रतिवेशानुवेशयोरुपरि निमन्त्रणे च द्वादशपणो दण्डः
सन्दिष्टं अर्थं अप्रयच्छतो, भ्रातृभार्यां हस्तेन लङ्घयतो, रूपाजीवां अन्य उपरुद्धां गच्छतः, परवक्तव्यं पण्यं क्रीणानस्य, समुद्रं गृहं उद्भिन्दतः, सामन्तचत्वारिंशत्कुल्याबाधां आचरतश्चाष्टचत्वारिंशत्पणो दण्डः
कुलनीवीग्राहकस्यापव्ययने, विधवां छन्दवासिनीं प्रसह्याधिचरतः, चण्डालस्यार्यां स्पृशतः, प्रत्यासन्नं आपद्यनभिधावतो, निष्कारणं अभिधावनं कुर्वतः, शाक्याजीवकादीन् वृषलप्रव्रजितान् देवपितृकार्येषु भोजयतः शत्यो दण्डः
शपथवाक्यानुयोगं अनिषृष्टं कुर्वतः, युक्तकर्म चायुक्तस्य, क्षुद्रपशुवृषाणां पुंस्त्व उपघातिनः, दास्या गर्भं औषधेन पातयतश्च पूर्वः साहसदण्डः
पितापुत्रयोर्दम्पत्योर्भ्रातृभगिन्योर्मातुलभगिनेययोः शिष्याचार्ययोर्वा परस्परं अपतितं त्यजतः, सार्थाभिप्रयातं ग्राममध्ये वा त्यजतः पूर्वः साहसदण्डः, कान्तारे मध्यमः, तन्निमित्तं भ्रेषयत उत्तमः, सहप्रस्थायिष्वन्येष्वर्धदण्डाः
पुरुषं अबन्धनीयं बध्नतो बन्धयतो बन्धं वा मोक्षयतो, बालं अप्राप्तव्यवहारं बध्नतो बन्धयतो वा सहस्रं दण्डः
पुरुषापराधविशेषेण दण्डविशेषः कार्यः
तीर्थकरः तपस्वी व्याधितः क्षुत्पिपासाऽध्वक्लान्तः तिरोजनपदो दण्डखेदी निष्किञ्चनश्चानुग्राह्याः
देवब्राह्मणतपस्विस्त्रीबालवृद्धव्याधितानां अनाथानां अनभिसरतां धर्मस्थाः कार्याणि कुर्युः, न च देशकालभोगच्छलेनातिहरेयुः
पूज्या विद्याबुद्धिपौरुषाभिजनकर्मातिशयतश्च पुरुषाः
एवं कार्याणि धर्मस्थाः कुर्युरच्छलदर्शिनः ।
समाः सर्वेषु भावेषु विश्वास्या लोकसम्प्रियाः