दण्डपारुष्यं स्पर्शनं अवगूर्णं प्रहतं इति
नाभेरधःकायं हस्तपङ्कभस्मपांसुभिरिति स्पृशतः त्रिपणो दण्डः, तैरेवामेध्यैः पादष्ठीविकाभ्यां च षट्पणः, छर्दिमूत्रपुरीषादिभिर्द्वादशपणः
नाभेरुपरि द्विगुणाः, शिरसि चतुर्गुणाः समेषु
विशिष्टेषु द्विगुणाः, हीनेष्वर्धदण्डाः, परस्त्रीषु द्विगुणाः, प्रमादमदमोहादिभिरर्धदण्डाः
पादवस्त्रहस्तकेशावलम्बनेषु षट्पण उत्तरा दण्डाः
पीडनावेष्टनाञ्चनप्रकर्षणाध्यासनेषु पूर्वः साहसदण्डः
पातयित्वाऽपक्रामतोऽर्धदण्डः
शूद्रो येनाङ्गेन ब्राह्मणं अभिहन्यात् तद् अस्यच्छेदयेत्
अवगूर्णे निष्क्रयः, स्पर्शेऽर्धदण्डः
तेन चण्डालाशुचयो व्याख्यातः
हस्तेनावगूर्णे त्रिपणावरो द्वादशपणपरो दण्डः, पादेन द्विगुणः, दुःख उत्पादनेन द्रव्येण पूर्वः साहसदण्डः, प्राणाबाधिकेन मध्यमः
काष्ठलोष्टपाषाणलोहदण्डरज्जुद्रव्याणां अन्यतमेन दुःखं अशोणितं उत्पादयतश्चतुर्विंशतिपणो दण्डः, शोणित उत्पादने द्विगुणः, अन्यत्र दुष्टशोणितात्
मृतकल्पं अशोणितं घ्नतो हस्तपादपारञ्चिकं वा कुर्वतः पूर्वः साहसदण्डः, पाणिपाददन्तभङ्गे कर्णनासाच्छेदने व्रणविदारणे च्च, अन्यत्र दुष्टव्रणेभ्यः
सक्थिग्रीवाभञ्जने नेत्रभेदने वा वाक्यचेष्टाभोजन उपरोधेषु च मध्यमः साहसदण्डः समुत्थानव्ययश्च
विपत्तौ कण्टकशोधनाय नीयेत
महाजनस्य एकं घ्नतः प्रत्येकं द्विगुणो दण्डः
पर्युषितः कलहोऽनुप्रवेशो वा नाभियोज्यः इत्याचार्याः
नास्त्यपकारिणो मोक्ष इति कौटिल्यः
कलहे पूर्वागतो जयति, अक्षममाणो हि प्रधावति इत्याचार्याः
न इति कौटिल्यः
पूर्वं पश्चाद् वाऽभिगतस्य साक्षिणः प्रमाणं, असाक्षिके घातः कलह उपलिङ्गनं वा
घाताभियोगं अप्रतिब्रुवतः तद् अहरेव पश्चात्कारः
कलहे द्रव्यं अपहरतो दशपणो दण्डः, क्षुद्रकद्रव्यहिंसायां तच्च तावच्च दण्डः, स्थूलकद्रव्यहिंसायां तच्च द्विगुणश्च दण्डः, वस्त्राभरणहिरण्यसुवर्णभाण्डहिंसायां तच्च पूर्वश्च साहसदण्डः
परकुड्यं अभिघातेन क्षोभयतः त्रिपणो दण्डः, छेदनभेदने षट्पणः, प्रतीकारश्च
दुःख उत्पादनं द्रव्यं अन्यवेश्मनि प्रक्षिपतो द्वादशपणो दण्डः, प्राणाबाधिकं पूर्वः साहसदण्डः
क्षुद्रपशूनां काष्ठादिभिर्दुःख उत्पादने पणो द्विगुणो वा दण्डः, शोणित उत्पादने द्विगुणः
महापशूनां एतेष्वेव स्थानेष्व्द्विगुणो दण्डः समुत्थानव्ययश्च
पुर उपवनवनस्पतीनां पुष्पफलच्छायावतां प्ररोहच्छेदने षट्पणः, क्षुद्रशाखाच्छेदने द्वादशपणः, पीनशाखाच्च्छेदने चतुर्विंशतिपणः, स्कन्धवधे पूर्वः साहसदण्डः, समुच्छित्तौ मध्यमः
पुष्पफलच्छायावद्गुल्मलतास्वर्धदण्डाः, पुण्यस्थानतपोवनश्मशानद्रुमेषु च
सीमवृक्षेषु चैत्येषु द्रुमेष्वालक्षितेषु च ।
त एव द्विगुणा दण्डाः कार्या राजवनेषु च