श्लोक ०३-१८

Kautilya Arthashastra by Acharya Chankya
वाक्पारुष्यं उपवादः कुत्सनं अभिभर्त्सनं इति
शरीरप्रकृतिश्रुतवृत्तिजनपदानां शरीर उपवादे काणखञ्जादिभिः सत्ये त्रिपणो दण्डः, मिथ्या उपवादे षट्पणो दण्डः
शोभनाक्षिमन्तः इति काणखञ्जादीनां स्तुतिनिन्दायां द्वादशपणो दण्डः
कुष्ठ उन्मादक्लैब्यादिभिः कुत्सायां च सत्यमिथ्यास्तुतिनिन्दासु द्वादशपण उत्तरा दण्डाः तुल्येषु
विशिष्टेषु द्विगुणाः, हीनेष्वर्धदण्डाः, परस्त्रीषु द्विगुणाः, प्रमादमदमोहादिभिरर्धदण्डाः
कुष्ठ उन्मादयोश्चिकित्सकाः संनिकृष्टा पुमांसश्च प्रमाणं, क्लीबभावे स्त्रियो मूत्रफेनोऽप्सु विष्ठानिमज्जनं च
प्रकृत्य्।उपवादे ब्राह्मणक्षत्रियवैश्यशूद्रान्तावसायिनां अपरेण पूर्वस्य त्रिपण उत्तरा दण्डाः, पूर्वेणापरस्य द्विपणाधराः, कुब्राह्मणादिभिश्च कुत्सायाम्
तेन श्रुत उपवादो वाग्जीवनानां, कारुकुशीलवानां वृत्त्य्।उपवादः, प्राज्जूणकगान्धारादीनां च जनपद उपवादा व्याख्याताः
यः परं एवं त्वां करिष्यामि इति करणेनाभिभर्त्सयेद्, अकरणे यः तस्य करणे दण्डः ततोऽर्धदण्डं दद्यात्
अशक्तः कोपं मदं मोहं वाऽपदिशेद् द्वादशपणं दण्डं दद्यात्
जातवैराशयः शक्तश्चापकर्तुं यावज्जीविकावस्थं दद्यात्
स्वदेशग्रामयोः पूर्वं मध्यमं जातिसङ्घयोः ।
आक्रोशाद् देवचैत्यानां उत्तमं दण्डं अर्हति