श्लोक ०३-१७

Kautilya Arthashastra by Acharya Chankya
साहसं अन्वयवत् प्रसभकर्म
निरन्वये स्तेयं, अपव्ययने च
रत्नसारफल्गुकुप्यानां साहसे मूल्यसमो दण्डः इति मानवाः
मूल्यद्विगुणः इत्यौशनसाः
यथाऽपराध इति कौटिल्यः
पुष्पफलशाकमूलकन्दपक्वान्नचर्मवेणुमृद्भाण्डादीनां क्षुद्रकद्रव्याणां द्वाद्शपणावरश्चतुर्विंशतिपणपरो दण्डः
कालायसकाष्ठरज्जुद्रव्यक्षुद्रपशुपटादीनां स्थूलकद्रव्याणां चतुर्विंशतिपणावरोऽष्टचत्वारिंशत्पणपरो दण्डः
ताम्रवृत्तकंसकाचदन्तभाण्डादीनां स्थूलकद्रव्याणां अष्टचत्वारिंशत्पणावरः षण्ँअवतिपरः पूर्वः साहसदण्डः
महापशुमनुष्यक्षेत्रगृहहिरण्यसुवर्णसूक्ष्मवस्त्रादीनां स्थूलकद्रव्याणां द्विशतावरः पञ्चशतपरो मध्यमः साहसदण्डः
स्त्रियं पुरुषं वाऽभिषह्य बध्नतो बन्धयतो बन्धं वा मोक्षयतः पञ्चशतावरः सहस्रपर उत्तमः साहसदण्डः इत्याचार्याः ॥

यः साहसं प्रतिपत्ता इति कारयति स द्विगुणं दद्यात्
यावद्द् हिरण्यं उपयोक्ष्यते तावद् दास्यामि इति स चतुर्गुणं दण्डं दद्यात्
यः एतावद्द् हिरण्यं दास्यामि इति प्रमाणं उद्दिश्य कारयति स यथा उक्तं हिरण्यं दण्डं च दद्यात् इति बार्हस्पत्याः
स चेत् कोपं मदं मोहं वाऽपदिशेद् यथा उक्तवद् दण्डं एनं कुर्याद् इति कौटिल्यः
दण्डकर्मसु सर्वेषु रूपं अष्टपणं शतम् ।
शतात् परेषु व्याजीं च विद्यात् पञ्चपणं शतम्
प्रजानां दोषबाहुल्याद् राज्ञां वा भावदोषतः ।
रूपव्याज्यावधर्मिष्ठे धर्म्या तु प्रकृतिः स्मृता