दत्तस्याप्रदानं ऋणादानेन व्याख्यातम्
दत्तं अव्यवहार्यं एकत्रानुशये वर्तेत
सर्वस्वं पुत्रदारं आत्मानं वा प्रदायानुशयिनः प्रयच्छेत्
धर्मदानं असाधुषु कर्मसु चाउपघातिकेषु वा, अर्थदानं अनुपकारिष्वपकारिषु वा, कामदानं अनर्हेषु च
यथा च दाता प्रतिग्रहीता च न उपहतौ स्यातां तथाऽनुशयं कुशलाः कल्पयेयुः
दण्डभयाद् आक्रोशभयाद् अनर्थभयाद् वा भयदानं प्रतिगृह्णतः स्तेयदण्डः, प्रयच्छतश्च
रोषदानं परहिंसायां, राज्ञां उपरि दर्पदानं च
तत्र उत्तमो दण्डः
प्रातिभाव्यं दण्डशुल्कशेषं आक्षिकं सौरिकं च नाकामः पुत्रो दायादो वा रिक्थहरो दद्यात् इति दत्तस्यानपाकर्म ।
अस्वामिविक्रयः तु - नष्टापहृतं आसाद्य स्वामी धर्मस्थेन ग्राहयेत्
देशकालातिपत्तौ वा स्वयं गृहीत्वा उपहरेत्
धर्मस्थश्च स्वामिनं अनुयुञ्जीत कुतः ते लब्धम् इति
स चेद् आचारक्रमं दर्शयेत, न विक्रेतारं, तस्य द्रव्यस्यातिसर्गेण मुच्येत
विक्रेता चेद् दृश्येत, मूल्यं स्तेयदण्डं च दद्यात्
स चेद् अपसारं अधिगच्छेद् अपसरेद् आऽपसारक्षयात्
क्षये मूल्यं स्तेयदण्डं च दद्यात्
नाष्टिकश्च स्वकरणं कृत्वा नष्टप्रत्याहृतं लभेत
स्वकरणाभावे पञ्चबन्धो दण्डः
तच्च द्रव्यं राजधर्म्यं स्यात्
नष्टापहृतं अनिवेद्य उत्कर्षतः स्वामिनः पूर्वः साहसदण्डः
शुल्कस्थाने नष्टापहृत उत्पन्नं तिष्ठेत्
त्रिपक्षाद् ऊर्ध्वं अनभिसारं राजा हरेत्, स्वामी वा स्वकरणेन
पञ्चपणिकं द्विपदरूपस्य निष्क्रयं दद्यात्, चतुष्पणिकं एकखुरस्य, द्विपणिकं गोमहिषस्य, पादिकं क्षुद्रपशूनाम्
रत्नसारफल्गुकुप्यानां पञ्चकं शतं दद्यात्
परचक्राटवीहृतं तु प्रत्यानीय राजा यथास्वं प्रयच्छेत्
चोरहृतं अविद्यमानं स्वद्रव्येभ्यः प्रयच्छेत्, प्रत्यानेतुं अशक्तो वा
स्वयङ्ग्राहेणाहृतं प्रत्यानीय तन्निष्क्रयं वा प्रयच्छेत्
परविषयाद् वा विक्रमेणानीतं यथाप्रदिष्टं राज्ञा भुञ्जीत, अन्यत्रार्यप्राणेभ्यो देवब्राह्मणतपस्विद्रव्येभ्यश्च इत्यस्वामिविक्रयः ।
स्वस्वामिसम्बन्धः तु - भोगानुवृत्तिरुच्छिन्नदेशानां यथास्वं द्रव्याणाम्
यत् स्वं द्रव्यं अन्यैर्भुज्यमानं दश वर्षाण्युपेक्षेत, हीयेतास्य, अन्यत्र बालवृद्धव्याधितव्यसनिप्रोषितदेशत्यागराज्यविभ्रमेभ्यः
विंशतिवर्ष उपेक्षितं अनवसितं वास्तु नानुयुञ्जीत
ज्ञातयः श्रोत्रियाः पाषण्डा वा राज्ञां असंनिधौ परवास्तुषु विवसन्तो न भोगेन हरेयुः, उपनिधिं आधिं निधिं निक्षेपं स्त्रियं सीमानं राजश्रोत्रियद्रव्याणि च
आश्रमिणः पाषण्डा वा महत्यवकाशे परस्परं अबाधमाना वसेयुः
अल्पां बाधां सहेरन्
पूर्वागतो वा वासपर्यायं दद्यात्
अप्रदाता निरस्येत
वानप्रस्थयतिब्रह्मचारिणां आचार्यशिष्यधर्मभ्रातृसमानतीर्थ्या रिक्थभाजः क्रमेण
विवादपदेषु च एषां यावन्तः पणा दण्डाः तावती रात्रीः क्षपणाभिषेकाग्निकार्यमहाकच्छवर्धनानि राज्ञश्चरेयुः
अहिरण्यसुवर्णाः पाषढाः साधवः
ते यथास्वं उपवासव्रतैराराधयेयुः, अन्यत्र पारुष्यस्तेयसाहससङ्ग्रहणेभ्यः
तेषु यथा उक्ता दण्डाः कार्याः
प्रव्रज्यासु वृथाऽऽचारान् राजा दण्डेन वारयेत् ।
धर्मो ह्यधर्म उपहतः शास्तारं हन्त्युपेक्षितः