विक्रीय पण्यं अप्रयच्छतो द्वादशपणो दण्डः, अन्यत्र दोष उपनिपाताविषह्येभ्यः
पण्यदोषो दोषः
राजचोराग्न्य्।उदकबाध उपनिपातः
बहुगुणहीनं आर्तकृतं वाऽविषह्यम्
वैदेहकानां एकरात्रं अनुशयः, कर्षकाणां त्रिरात्रं, गोरक्षकाणां पञ्चरात्रम्
व्यामिश्राणां उत्तमानां च वर्णानां वृत्तिविक्रये सप्तरात्रम्
आतिपातिकानां पण्यानां अन्यत्राविक्रेयम् इत्यवरोधेनानुशयो देयः
तस्यातिक्रमे चतुर्विंशतिपणो दण्डः, पण्यदशभागो वा
क्रीत्वा पण्यं अप्रतिगृह्णतो द्वादशपणो दण्डः, अन्यत्र दोष उपनिपाताविषह्येभ्यः
समानश्चानुशयो विक्रेतुरनुशयेन
विवाहानां तु त्रयाणां पूर्वेषां वर्णानां पाणिग्रहणात् सिद्धं उपावर्तनं, शूद्राणां च प्रकर्मणः
वृत्तपाणिग्रहणयोरपि दोषं औपशायिकं दृष्ट्वा सिद्धं उपावर्तनम्
न त्वेवाभिप्रजातयोः
कन्यादोषं औपशायिकं अनाख्याय प्रयच्छतः कन्यां षण्ँअवतिर्दण्डः, शुल्कस्त्रीधनप्रतिदानं च
वरयितुर्वा वरदोषं अनाख्याय विन्दतो द्विगुणः, शुल्कस्त्रीधननाशश्च
द्विपदचतुष्पदानां तु कुण्ठव्याधिताशुचीनां उत्साहस्वास्थ्यशुचीनां आख्याने द्वादशपणो दण्डः
आत्रिपक्षाद् इति चतुष्पदानां उपावर्तनं, आसंवत्सराद् इति मनुष्याणाम्
तावता हि कालेन शक्यं शौचाशौचे ज्ञातुम्
दाता प्रतिग्रहीता च स्यातां न उपहतौ यथा ।
दाने क्रये वाऽनुशयं तथा कुर्युः सभासदः