श्लोक ०३-१४

Kautilya Arthashastra by Acharya Chankya
गृहीत्वा वेतनं कर्माकुर्वतो भृतकस्य द्वादशपणो दण्डः, संरोधश्चाकरणात्
अशक्तः कुत्सिते कर्मणि व्याधौ व्यसने वाऽनुशयं लभेत, परेण वा कारयितुम्
तस्यव्ययकर्मणा लभेत भर्ता वा कारयितुम्
नान्यः त्वया कारयितव्यो, मया वा नान्यस्य कर्तव्यम् इत्यवरोधे भर्तुरकारयतो भृतकस्याकुर्वतो वा द्वादशपणो दण्डः
कर्मनिष्ठापने भर्तुरन्यत्र गृहीतवेतनो नासकामः कुर्यात्
उपस्थितं अकारयतः कृतं एव विद्याद् इत्याचार्याः
न इति कौटिल्यः
कृतस्य वेतनं नाकृतस्यास्ति
स चेद् अल्पं अपि कारयित्वा न कारयेत् कृतं एवास्य विद्यात्
देशकालातिपातनेन कर्मणां अन्यथाकरणे वा नासकामः कृतं अनुमन्येत
सम्भाषिताद् अधिकक्रियायां प्रयासं न मोघं कुर्यात्
तेन सङ्घभृता व्याख्याताः
तेषां आधिः सप्तरात्रं आसीत
ततोऽन्यं उपस्थापयेत्, कर्मनिष्पाकं च
न चानिवेद्य भर्तुः सङ्घः कञ्चित् परिहरेद् उपनयेद् वा
तस्यातिक्रमे चतुर्विंशतिपणो दण्डः
सङ्घेन परिहृतस्यार्धदण्डः इति भृतकाधिकारः ॥

सङ्घभृताः सम्भूयसमुत्थातारो वा यथासम्भाषितं वेतनं समं वा विभजेरन्
कर्षणवैदेहका वा सस्यपण्यारम्भपर्यवसानान्तरे सन्नस्य यथाकृतस्य कर्मणः प्रत्यंशं दद्युः
पुरुष उपस्थाने समग्रं अंशं दद्युः
संसिद्धे तु उद्धृतपण्ये सन्नस्य तदानीं एव प्रत्यंशं दद्युः
सामान्या हि पथिसिद्धिश्चासिद्धिश्च
प्रक्रान्ते तु कर्मणि स्वस्थस्यापक्रामतो द्वादशपणो दण्डः
न च प्राकाम्यं अपक्रमणे
चोरं त्वभयपूर्वं कर्मणः प्रत्यंशेन ग्राहयेद्, दद्यात् प्रत्यंशं अभयं च
पुनःस्तेये प्रवासनं, अन्यत्रगमने च
महाऽपराधे तु दूष्यवद् आचरेत्
याजकाः स्वाप्रचारद्रव्यवर्जं यथासम्भाषितं वेतनं समं वा विभजेरन्
अग्निष्टोमादिषु च क्रतुषु दीक्षणाद् ऊर्ध्वं तृतीयं अंशं, मध्यम उपसद ऊर्ध्वं अर्धं अंशं, सुत्ये प्रातःसवनाद् ऊर्ध्वं पाद ऊनं अंशम्
माध्यन्दिनात् सवनाद् ऊर्ध्वं समग्रं अंशं लभेत
नीता हि दक्षिणा भवन्ति
बृहस्पतिसववर्जं प्रतिसवनं हि दक्षिणा दीयन्ते
तेनाहर्गणदक्षिणा व्याख्याताः
सनानां आदशाहोरात्रात्शेषभृताः कर्म कुर्युः, अन्ये वा स्वप्रत्ययाः
कर्मण्यसमाप्ते तु यजमानः सीदेद्, ऋत्विजः कर्म समापय्य दक्षिणां हरेयुः
असमाप्ते तु कर्मणि याज्यं याजकं वा त्यजतः पूर्वः साहसदण्डः
अनाहिताग्निः शतगुरुयज्वा च सहस्रगुः ।
सुरापो वृषलीभर्ता ब्रह्महा गुरुतल्पगः
असत्प्रतिग्रहे युक्तः स्तेनः कुत्सितयाजकः ।
अदोषः त्यक्तुं अन्योन्यं कर्मसङ्करनिश्चयात्