उदरदासवर्जं आर्यप्राणं अप्राप्तव्यवहारं शूद्रं विक्रयाधानं नयतः स्वजनस्य द्वादशपणो दण्डः, वैश्यं द्विगुणः, क्षत्रियं त्रिगुणः, ब्राह्मणं चतुर्गुणः
परजनस्य पूर्वमध्यम उत्तमवधा दण्डाः, क्रेतृश्रोतॄणां च
म्लेच्छानां अदोषः प्रजां विक्रेतुं आधातुं वा
न त्वेवार्यस्य दासभावः
अथवाऽऽर्यं आधाय कुलबन्धन आर्याणां आपदि, निष्क्रयं चाधिगम्य बालं साहाय्यदातारं वा पूर्वं निष्क्रीणीरन्
सकृद्।आत्माधाता निष्पतितः सीदेत्, द्विरन्येनाहितकः, सकृद् उभौ परविषयाभिमुखौ
वित्तापहारिणो वा दासस्यार्यभावं अपहरतोऽर्धदण्डः
निष्पतितप्रेतव्यसनिनां आधाता मूल्यं भजेत
प्रेतविण्मूत्र उच्छिष्टग्राहणं आहितस्य नग्नस्नापनं दण्डप्रेषणं अतिक्रमणं च स्त्रीणां मूल्यनाशकरं, धात्रीपरिचारिकार्धसीतिक उपचारिकाणां च मोक्षकरम्
सिद्धं उपचारकस्याभिप्रजातस्यापक्रमणम्
धात्रीं आहितिकां वाऽकामां स्ववशां गच्छतः पूर्वः साहसदण्डः, परवशां मध्यमः
कन्यां आहितिकां वा स्वयं अन्येन वा दुषयतो मूल्यनाशः शुल्कं तद्द्वुगुणश्च दण्डः
आत्मविक्रयिणः प्रजां आर्यां विद्यात्
आत्माधिगतं स्वामिकर्माविरुद्धं लभेत, पित्र्यं च दायम्
मूल्येन चार्यत्वं गच्छेत्
तेन उदरदासाहितकौ व्याख्यातौ
प्रक्षेपानुरूपश्चास्य निष्क्रयः
दण्डप्रणीतः कर्मणा दण्डं उपनयेत्
आर्यप्राणो ध्वजाहृतः कर्मकालानुरूपेण मूल्यार्धेन वा विमुच्येत
गृहेजातदायागतलब्धक्रीतानां अन्यतमं दासं ऊनाष्टवर्षं विबन्धुं अकामं नीचे कर्मणि विदेशे दासीं वा सगर्भां अप्रतिविहितगर्भभर्मण्यां विक्रयाधानं नयतः पूर्वः साहसदण्डः, क्रेतृश्रोतॄणां च
दासं अनुरूपेण निष्क्रयेणार्यं अकुर्वतो द्वादशपणो दण्डः, संरोधश्चाकरणात्
दासद्रव्यस्य ज्ञातयो दायादाः, तेषां अभावे स्वामी
स्वामिनः स्वस्यां दास्यां जातं समातृकं अदासं विद्यात्
गृह्या चेत् कुटुम्बार्थचिन्तनी माता भ्राता भगिनी चास्या अदासाः स्युः
दासं दासीं वा निष्क्रीय पुनर्विक्रयाधानं नयतो द्वादशपणो दण्डः, अन्यत्र स्वयंवादिभ्यः इति दासकल्पः ।
कर्मकरस्य कर्मसम्बन्धं आसन्ना विद्युः
यथासम्भाषितं वेतनं लभेत, कर्मकालानुरूपं असम्भाषितवेतनः
कर्षकः सस्यानां गोपालकः सर्पिषां वैदेहकः पण्यानां आत्मना व्यवहृतानां दशभागं असम्भाषितवेतनो लभेत
सम्भाषितवेतनः तु यथासम्भाषितम्
कारुशिल्पिकुशीलवचिकित्सकवाग्जीवनपरिचारकादिराशाकारिकवर्गः तु यथाऽन्यः तद्विधः कुर्याद् यथा वा कुशलाः कल्पयेयुः तथा वेतनं लभेत
साक्षिप्रत्ययं एव स्यात्
साक्षिणां अभावे यतः कर्म ततोऽनुयुञ्जीत
वेतनादाने दशबन्धो दण्डः, षट्पणो वा
अपव्ययमाने द्वादशपणो दण्डः, पञ्चबन्धो वा
नदीवेगज्वालास्तेनव्याल उपरुद्धः सर्वस्वपुत्रदारात्मदानेनार्तः त्रातारं आहूय निष्तीर्णः कुशलप्रदिष्टं वेतनं दद्यात्
तेन सर्वत्रार्तदानानुशया व्याख्याताः
लभेत पुंश्चली भोगं सङ्गमस्य उपलिङ्गनात् ।
अतियाच्ना तु जीयेत दौर्मत्याविनयेन वा