उपनिधिरृणेन व्याख्यातः
परचक्राटविकाभ्यां दुर्गराष्ट्रविलोपे वा, प्रतिरोधकैर्वा ग्रामसार्थव्रजविलोपे, चक्रयुक्तनाशे वा, ग्राममध्याग्न्य्।उदकाबाधे ज्वालावेग उपरुद्धे वा, नावि निमग्नायां मुषितायां वा स्वयं उपरूढो न उपनिधिं अभ्यावहेत्
उपनिधिभोक्ता देशकालानुरूपं भोगवेतनं दद्यात्, द्वादशपणं च दण्डम्
उपभोगनिमित्तं नष्टं विनष्टं वाऽभ्यावहेत्, चतुर्विंशतिपणश्च दण्डः, अन्यथा वा निष्पतने
प्रेतं व्यसनगतं वा न उपनिधिं अभ्यावहेत्
आधानविक्रयापव्ययनेषु चास्य चतुर्गुणपञ्चबन्धो दण्डः
परिवर्तने निष्पातने वा मूल्यसमः
तेनाधिप्रणाश उपभोगविक्रयाधानापहारा व्याख्याताः
नाधिः स-उपकारः सीदेत्, न चास्य मूल्यं वर्धेत, अन्यत्र निसर्गात्
निरुपकारः सीदेत्, मूल्यं चास्य वर्धेत
उपस्थितस्याधिं अप्रयच्छतो द्वादशण्पणो दण्डः
प्रयोजकासम्निधाने वा ग्रामवृद्धेषु स्थापयित्वा निष्क्रयं आधिं प्रतिपद्येत
निवृत्तवृद्धिको वाऽऽधिः तत्कालकृतमूल्यः तत्र एवावतिष्ठेत, अनाशविनाशकरणाधिष्ठितो वा
धारणिकासम्निधाने वा विनाशभयाद् उद्गतार्घं धर्मस्थानुज्ञातो विक्रीणीत, आधिपालप्रत्ययो वा
स्थावरः तु प्रयासभोग्यः फलभोग्यो वा प्रक्षेपवृद्धिमूल्यशुद्धं आजीवं अमूल्यक्षयेण उपनयेत्
अनिसृष्ट उपभोक्ता मूल्यशुद्धं आजीवं बन्धं च दद्यात्
शेषं उपनिधिना व्याख्यातम्
एतेनादेशोऽन्वाधिश्च व्याख्यातौ
सार्थेनान्वाधिहस्तो वा प्रदिष्टां भूमिं अप्राप्तश्चोरैर्भग्न उत्सृष्टो वा नान्वाधिं अभ्यावहेत्
अन्तरे वा मृतस्य दायादोऽपि नाभ्यावहेत्
शेषं उपनिधिना व्यकह्यातम्
याचितकं अवक्रीतकं वा यथाविधं गृह्णीयुः तथाविधं एवार्पयेयुः
भ्रेष उपनिपाताभ्यां देशकाल उपरोधि दत्तं नष्टं विनष्टं वा नाभ्यावहेयुः
शेषं उपनिधिना व्याख्यातम्
वैयावृत्यविक्रयः तु - वैयावृत्यकरा यथादेशकालं विक्रीणानाः पण्यं यथाजातं मूल्यं उदयं च दद्युः
देशकालातिपातने वा परिहीणं सम्प्रदानकालिकेनार्घेण मूल्यं उदयं च दद्युः
यथासम्भाषितं वा विक्रीणाना न उदयं अधिगच्छेयुः, मूल्यं एव दद्युः
अर्घपतने वा परिहीणं यथापरिहीणं मूल्यं ऊनं दद्युः
सांव्यवहारिकेषु वा प्रात्ययिकेष्वराजवाच्येषु भ्रेष उपनिपाताभ्यां नष्टं विनष्टं वा मूल्यं अपि न दद्युः
देशकालान्तरितानां तु पण्यानां क्षयव्ययविशुद्धं मूल्यं उदयं च दद्युः, पण्यसमवायानां च प्रत्यंशम्
शेषं उपनिधिना व्याख्यातम्
एतेन वैयावृत्यविक्रयो व्याख्यातः
निक्षेपश्च उपनिधिना
तं अन्येन निक्ष्पितं अन्यस्यार्पयतो हीयेत
निक्षेपापहारे पूर्वापदानं निक्षेप्तारश्च प्रमाणम्
अशुचयो हि कारवः
न एषां करणपूर्वो निक्षेपधर्मः
करणहीनं निक्षेपं अपव्ययमानं गूढभित्तिन्यस्तान् साक्षिणो निक्षेप्ता रहसि प्रणिपातेन प्रज्ञापयेत्, वनान्ते वा मद्यप्रहवणविश्वासेन
रहसि वृद्धो व्याधितो वा वैदेहकः कश्चित् कृतलक्षणं द्रव्यं अस्य हस्ते निक्षिप्यापगच्छेत्
तस्य प्रतिदेशेन पुत्रो भ्राता वाऽभिगम्य निक्षेपं याचेत
दाने शुचिः, अन्यथा निक्षेपं स्तेयदण्डं च दद्यात्
प्रव्रज्याऽभिमुखो वा श्रद्धेयः कश्चित् कृतलक्षणं द्रव्यं अस्य हस्ते निक्षिप्य प्रतिष्ठेत
ततः कालान्तरागतो याचेत

कृतलक्षणेन वा द्रव्येण प्रत्यानयेद् एनम्
बालिशजातीयो वा रात्रौ राजदायिकाक्षणभीतः सारं अस्य हस्ते निक्षिप्यापगच्छेत्
स एनं बन्धनागारगतो याचेत

अभिज्ञानेन चास्य गृहे जनं उभयं याचेत
अन्यतर्तादाने यथा उक्तं पुरस्तात्
द्रव्यभोगानां आगमं चास्यानुयुञ्जीत, तस्य चार्थस्य व्यवहार उपलिङ्गनं, अभियोक्तुश्चार्थसामर्थ्यम्
एतेन मिथःसमवायो व्याख्यातः
तस्मात् साक्षिमद् अच्छन्नं कुर्यात् सम्यग्विभाषितम् ।
स्वे परे वा जने कार्यं देशकालाग्रवर्णतः