सपादपणा धर्म्या मासवृद्धिः पणशतस्य, पञ्चपणा व्यावहारिकी, दशपणा कान्तारगाणां, विंशतिपणा सामुद्राणाम्
ततः परं कर्तुः कारयितुश्च पूर्वः साहसदण्डः, श्रोतॄणां एक एकं प्रत्यर्धदण्डः
राजन्ययोगक्षेमावहे तु धनिकधारणिकयोश्चरित्रं अवेक्षेत
धान्यवृद्धिः सस्यनिष्पत्तावुपार्धा, परं मूल्यकृता वर्धेत
प्रक्षेपवृद्धिरुदयाद् अर्धं सम्निधानसन्ना वार्षिकी देया
चिरप्रवासः स्तम्भप्रविष्टो वा मूल्यद्विगुणं दद्यात्
अकृत्वा वृद्धिं साधयतो वर्धयतो वा, मूल्यं वा वृद्धिं आरोप्य श्रावयतो बन्धचतुर्गुणो दण्डः
तुच्छश्रावणायां अभूतचतुर्गुणः
तस्य त्रिभागं आदाता दद्यात्, शेषं प्रदाता
दीर्घसत्त्रव्याधिगुरुकुल उपरुद्धं बालं असारं वा नऋणं अनुवर्धेत
मुच्यमानं ऋणं अप्रतिगृह्णतो द्वादशपणो दण्डः
कारणापदेशेन निवृत्तवृद्धिकं अन्यत्र तिष्ठेत्
दशवर्ष उपेक्षितं ऋणं अप्रतिग्राह्यं, अन्यत्र बालवृद्धव्याधितव्यसनिप्रोषितदेशत्यागराज्यविभ्रमेभ्यः
प्रेतस्य पुत्राः कुसीदं दद्युः, दायादा वा रिक्थहराः, सहग्राहिणः, प्रतिभुवो वा
न प्रातिभाव्यं अन्यत्
असारं बालप्रातिभाव्यम्
असङ्ख्यातदेशकालं तु पुत्राः पौत्रा दायादा वा रिक्थं हरमाणा दद्युः
जीवितविवाहभूमिप्रातिभाव्यं असङ्ख्यातदेशकालं तु पुत्राः पौत्रा वा वहेयुः
नानाऋणसमवाये तु न एकं द्वौ युगपद् अभिवदेयातां, अन्यत्र प्रतिष्ठमानात्
तत्रापि गृहीतानुपूर्व्या राजश्रोत्रियद्रव्यं वा पूर्वं प्रतिपादयेत्
दम्पत्योः पितापुत्रयोः भ्रातॄणां चाविभक्तानां परस्पर।कृतं ऋणं असाध्यम्
अग्राह्याः कर्मकालेषु कर्षका राजपुरुषाश्च
स्त्री चाप्रतिश्राविणी पतिकृतं ऋणं, अन्यत्र गोपालकार्धसीतिकेभ्यः
पतिः तु ग्राह्यः स्त्रीकृतं ऋणं, अप्रतिविधाय प्रोषित इति
सम्प्रतिपत्तावुत्तमः
अस्मप्रतिपत्तौ तु साक्षिणः प्रमाणं प्रात्ययिकाः शुचयोऽनुमता वा त्रयोऽवरार्ध्याः
पक्षानुमतौ वा द्वौ, ऋणं प्रति न त्वेव एकः
प्रतिषिद्धाः स्यालसहायान्वर्थिधनिकधारणिकवैरिन्यङ्गधृतदण्डाः, पूर्वे चाव्यवहार्याः
राजश्रोत्रियग्रामभृतककुष्ठिव्रणिनः पतितचण्डालकुत्सितकर्माणोऽन्धबधिरमूकाहंवादिनः स्त्रीराजपुरुषाश्च, अन्यत्र स्ववर्गेभ्यः
पारुष्यस्तेयसङ्ग्रहणेषु तु वैरिस्यालसहायवर्जाः
रहस्यव्यवहारेष्वेका स्त्री पुरुष उपश्रोता उपद्रष्टा वा साक्षी स्याद् राजतापसवर्जम्
स्वामिनो भृत्यानां ऋत्विग्।आचार्याः शिष्याणां मातापितरौ पुत्राणां चानिग्रहेण साक्ष्यं कुर्युः, तेसां इतरे वा
परस्पराभियोगे च एषां उत्तमाः परा उक्ता दशबन्धं दद्युः, अवराः पञ्चबन्धम् इति साक्ष्य्ऽधिकारः ॥
ब्राह्मण उदकुम्भाग्निसकाशे साक्षिणः परिगृह्णीयात्
तत्र ब्राह्मणं ब्रूयात् सत्यं ब्रूहि इति
राजन्यं वैश्यं वा मा तव इष्टापूर्तफलं, कपालहस्तः शत्रुकुलं भिक्षाऽर्थी गच्छेः इति
शूद्रं जन्ममरणान्तरे यद् वः पुण्यफलं तद् राजानं गच्छेद्, राज्ञश्च किल्बिषं युष्मान् अन्यथावादे, दण्डश्चानुबद्धः, पश्चाद् अपि ज्ञायेत यथादृष्टश्रुतं, एकमन्त्राः सत्यं उपहरत इति
अनुपहरतां सप्तरात्राद् ऊर्ध्वं द्वादशपणो दण्डः, त्रिपक्षाद् ऊर्ध्वं अभियोगं दद्युः
साक्षिभेदे यतो बहवः शुचयोऽनुमता वा ततो नियच्छेयुः, मध्यं वा गृह्णीयुः
तद् वा द्रव्यं राजा हरेत्
साक्षिणश्चेद् अभियोगाद् ऊनं ब्रूयुरतिरिक्तस्याभियोक्ता बन्धं दद्यात्
अतिरिक्तं वा ब्रूयुः तद्ऽतिरिक्तं राजा हरेत्
बालिश्याद् अभियोक्तुर्वा दुह्श्रुतं दुर्लिखितं प्रेताभिनिवेशं वा समीक्ष्य साक्षिप्रत्ययं एव स्यात्
साक्षिबालिष्येष्वेव पृथग्ऽनुयोगे देशकालकार्याणां पूर्वमध्यम उत्तमा दण्डाः इत्यौशनसाः
कूटसाक्षिणो यं अर्थं अभूतं कुर्युर्भूतं वा नाशयेयुः तद् दशगुणं दण्डं दद्युः इति मानवाः
बालिश्याद् वा विसंवादयतां चित्रो घातः इति बार्हस्पत्याः
न इति कौटिल्यः
ध्रुवं हि साक्षिभिः श्रोतव्यम्
अशृण्वतां चतुर्विंशतिपणो दण्डः, ततोऽर्धं अब्रुवाणानाम्
देशकालाविदूरस्थान् साक्षिणः प्रतिपादयेत् ।
दूरस्थान् अप्रसारान् वा स्वामिवाक्येन साधयेत्