कर्म उदकमार्गं उचितं रुन्धतः कुर्वतोऽनुचितं वा पूर्वः साहसदण्डः, सेतुकूपपुण्यस्थानचैत्यदेवायतनानि च परभूमौ निवेशयतः
पूर्वानुवृत्तं धर्मसेतुं आधानं विक्रयं वा नयतो नाययतो वा मध्यमः साहसदण्डः, श्रोतॄणां उत्तमः, अन्यत्र भग्न उत्सृष्टात्
स्वाम्यभावे ग्रामाः पुण्यशीला वा प्रतिकुर्युः
पथिप्रमाणं दुर्गनिवेशे व्याख्यातम्
क्षुद्रपशुमनुष्यपथं रुन्धतो द्वादशपणो दण्डः, महापशुपथं चतुर्विंशतिपणः, हस्तिक्षेत्रपथं चतुष्पञ्चाशत्पणः, सेतुवनपथं षट्शतः, श्मशानग्रामपथं द्विशतः, द्रोणमुखपथं पञ्चशतः, स्थानीयराष्ट्रविवीतपथं साहस्रः
अतिकर्षणे च एषां दण्डचतुर्था दण्डाः
कर्षणे पूर्व उक्ताः
क्षेत्रिकस्याक्षिपतः क्षेत्रं उपवासस्य वा त्यजतो बीजकाले द्वादशपणो दण्डः, अन्यत्र दोष उपनिपाताविषह्येभ्यः
करदाः करदेष्वाधानं विक्रयं वा कुर्युः, ब्रह्मदेयिका ब्रह्मदेयिकेषु
अन्यथा पूर्वः साहसदण्डः
करदस्य वाऽकरदग्रामं प्रविशतः
करदं तु प्रविशतः सर्वद्रव्येषु प्राकाम्यं स्यात्, अन्यत्रागारात्
तद् अप्यस्मै दद्यात्
अनादेयं अकृषतोऽन्यः पञ्चवर्षाण्युपभुज्य प्रयासनिष्क्रयेण दद्यात्
अकरदाः परत्र वसन्तो भोगं उपजीवेयुः
ग्रामार्थेन ग्रामिकं व्रजन्तं उपवासाः पर्यायेणानुगच्छेयुः
अननुगच्छन्तः पणार्धपणिकं योजनं दद्युः
ग्रामिकस्य ग्रामाद् अस्तेनपारदारिकं निरस्यतश्चतुर्विंशतिपणो दण्डः, ग्रामस्य उत्तमः
निरस्तस्य प्रवेशो ह्यभिगमेन व्याख्यातः
स्तम्भैः समन्ततो ग्रामाद् धनुःशतापकृष्टं उपसालं कारयेत्
पशुप्रचारार्थं विवीतं आलवनेन उपजीवेयुः
विवीतं भक्षयित्वाऽपसृतानां उष्ट्रमहिषाणां पादिकं रूपं गृह्णीयुः, गवाश्वखराणां चार्धपादिकं, क्षुद्रपशूनां षोडशभागिकम्
भक्षयित्वा निषण्णानां एत एव द्विगुणा दण्डाः, परिवसतां चतुर्गुणाः
ग्रामदेववृषा वाऽनिर्दशाहा वा धेनुरुक्षाणो गोवृषाश्चादण्ड्याः
सस्यभक्षणे सस्य उपघातं निष्पत्तितः परिसङ्ख्याय द्विगुणं दापयेत्
स्वामिनश्चानिवेद्य चारयतो द्वादशपणो दण्डः, प्रमुञ्चतश्चतुर्विंशतिपणः
पालिनां अर्धदण्डाः
तद् एव षण्डभक्षणे कुर्यात्
वाटभेदे द्विगुणः वेश्मखलवलयगतानां च धान्यानां भक्षणे
हिंसाप्रतीकारं कुर्यात्
अभयवनमृगाः परिगृहीता वा भक्षयन्तः स्वामिनो निवेद्य यथाऽवध्याः तथा प्रतिषेद्धव्याः
पशवो रश्मिप्रतोदाभ्यां वारयितव्याः
तेषां अन्यथा हिंसायां दण्डपारुष्यदण्डाः
प्रार्थयमाना दृष्टापराधा वा सर्व उपायैर्नियन्तव्याः इति क्षेत्रपथहिंसा ।
कर्षकस्य ग्रामं अभ्युपेत्याकुर्वतो ग्राम एवात्ययं हरेत्
कर्माकरणे कर्मवेतनद्विगुणं, हिरण्यादाने प्रत्यंशद्विगुणं, भक्ष्यपेयादाने च प्रहवणेषु द्विगुणं अंशं दद्यात्
प्रेक्षायां अनंशदः, स-स्वजनो न प्रेक्षेत
प्रच्छन्नश्रवण ईक्षणे च सर्वहिते च कर्मणि निग्रहेण द्विगुणं अंशं दद्यात्
सर्वहितं एकस्य ब्रुवतः कुर्युराज्ञाम्
अकरणे द्वादशपणो दण्डः
तं चेत् सम्भूय वा हन्युः पृथग् एषां अपराधद्विगुणो दण्डः
उपहन्तृषु विशिष्टः
ब्राह्मणश्च एषां ज्यैष्ठ्यं नियम्येत
प्रहवणेषु च एषां ब्राह्मणा नाकामाः कुर्युः, अंशं च लभेरन्
तेन देशजातिकुलसङ्घानां समयस्यानपाकर्म व्याख्यातम्
राजा देशहितान् सेतून् कुर्वतां पथि सङ्क्रमान् ।
ग्रामशोभाश्च रक्षाश्च तेषां प्रियहितं चरेत्