ज्ञातिसामन्तधनिकाः क्रमेण भूमिपरिग्रहान् क्रेतुं अभ्याभवेयुः
ततोऽन्ये बाह्याः
सामन्तचत्वारिंशत्कुल्येषु गृहप्रतिमुखे वेश्म श्रावयेयुः, सामन्तग्रामवृद्धेषु क्षेत्रं आरामं सेतुबन्धं तटाकं आधारं वा मर्यादासु यथासेतुभोगं अनेनार्घेण कः क्रेता इति
त्रिराघुषितं अव्याहतं क्रेता क्रेतुं लभेत
स्पर्धया वा मूल्यवर्धने मूल्यवृद्धिः स-शुल्का कोशं गच्छेत्
विक्रयप्रतिक्रोष्टा शुल्कं दद्यात्
अस्वामिप्रतिक्रोशे चतुर्विंशतिपणो दण्डः
सप्तरात्राद् ऊर्ध्वं अनभिसरतः प्रतिक्रुष्टो विक्रीणीत
प्रतिक्रुष्टातिक्रमे वास्तुनि द्विशतो दण्डः, अन्यत्र चतुर्विंशतिपणो दण्डः इति वास्तुविक्रयः ।
सीमविवादं ग्रामयोरुभयोः सामन्ता पञ्चग्रामी दशग्रामी वा सेतुभिः स्थावरैः कृत्रिमैर्वा कुर्यात्
कर्षकगोपालकवृद्धाः पूर्वभुक्तिका वा बाह्याः सेतूनां अभिज्ञा बहव एको वा निर्दिश्य सीमसेतून् विपरीतवेषाः सीमानं नयेयुः
उद्दिष्टानां सेतूनां अदर्शने सहस्रं दण्डः ।
तद् एव नीते सीमापहारिणां सेतुच्छिदां च कुर्यात्
प्रनष्टसेतुभोगं वा सीमानं राजा यथा उपकारं विभजेत् इति सीमविवादः ।
क्षेत्रविवादं सामन्तग्रामवृद्धाः कुर्युः
तेषां द्वैधीभावे यतो बहवः शुचयोऽनुमता वा ततो नियच्छेयुः मध्यं वा गृह्णीयुः
तद्।उभयपरा उक्तं वास्तु राजा हरेत्, प्रनष्टस्वामिकं च
यथा उपकारं वा विभजेत्
प्रसह्यादाने वास्तुनि स्तेयदण्डः
कारणादाने प्रयासं आजीवं च परिसङ्ख्याय बन्धं दद्यात् इति क्षेत्रविवादः ।
मर्यादाऽपहरणे पूर्वः साहसदण्डः
मर्यादाभेदे चतुर्विंशतिपणः
तेन तपोवनविवीतमहापथश्मशानदेवकुलयजनपुण्यस्थानविवादा व्याख्याताः इति मर्यादास्थापनम् ।
सर्व एव विवादाः सामन्तप्रत्ययाः
विवीतस्थलकेदारषण्डखलवेश्मवाहनकोष्ठानां पूर्वम्पूर्वं आबाधं सहेत
ब्रह्मसोमारण्यदेवयजनपुण्यस्थानवर्जाः स्थलप्रदेशाः
आधारपरिवाहकेदार उपभोगैः परक्षेत्रकृष्टबीजहिंसायां यथा उपघातं मूल्यं दद्युः
केदारारामसेतुबन्धानां परस्परहिंसायां हिंसाद्विगुणो दण्डः
पश्चान्निविष्टं अधरतटाकं न उपरितटाकस्य केदारं उदकेनाप्लावयेत्
उपरिनिविष्टं नाधरतटाकस्य पूरास्रावं वारयेद्, अन्यत्र त्रिवर्ष उपरतकर्मणः
तस्यातिक्रमे पूर्वः साहसदण्डः, तटाकवामनं च
पञ्चवर्ष उपरतकर्मणः सेतुबन्धस्य स्वाम्यं लुप्येत, अन्यत्रापद्भ्यः
तटाकसेतुबन्धानां नवप्रवर्तने पाञ्चवर्षिकः परिहारः, भग्न उत्सृष्टानां चातुर्वर्षिकः, समुपारूढानां त्रैवर्षिकः, स्थलस्य द्वैवर्षिकः
स्वात्माधाने विक्रये च
खातप्रावृत्तिं अनदीनिबन्धायतनतटाककेदारारामषण्डवापानां सस्यवर्णभाग उत्तरिकं अन्येभ्यो वा यथा उपकारं दद्युः
प्रक्रयावक्रयाधिभागभोगनिषृष्ट उपभोक्तारश्च एषां प्रतिकुर्युः
अर्पतीकारे हीनद्विगुणो दण्डः
सेतुभ्यो मुञ्चतः तोयं अवारे षट्पणो दमः ।
वारे वा तोयं अन्येषां प्रमादेन उपरुन्धतः