श्लोक ०३-०८

Kautilya Arthashastra by Acharya Chankya
सामन्तप्रत्यया वास्तुविवादाः
गृहं क्षेत्रं आरामः सेतुबन्धः तटाकं आधारो वा वास्तुः
कर्णकीलायससम्बन्धोऽनुगृहं सेतुः
यथासेतुभोगं वेश्म कारयेत्
अभूतं वा परकुड्याद् अपक्रम्य द्वावरत्नी त्रिपदीं वा देशबन्धं कारयेत्
अवस्करं भ्रमं उदपानं वा न गृह उचिताद् अन्यत्र, अन्यत्र सूतिकाकूपाद् आनिर्दशाहाद् इति
तस्यातिक्रमे पूर्वः साहसदण्डः
तेन इन्धनावघातनकृतं कल्याणकृत्येष्वाचाम उदकमार्गाश्च व्याख्याताः
त्रिपदीप्रतिक्रान्तं अध्यर्धं अरत्निं वा गाढप्रसृतं उदकमार्गं प्रस्रवणप्रपातं वा कारयेत्
तस्यातिक्रमे चतुष्पञ्चाशत्पणो दण्डः
एकपदीप्रतिक्रान्तं अरत्निं वा चक्रिचतुष्पदस्थानं अग्निष्ठं उदञ्जरस्थानं रोचनीं कुट्टनीं वा कारयेत्
तस्यातिक्रमे चतुर्विंशतिपणो दण्डः
सर्ववास्तुकयोः प्राक्षिप्तकयोर्वा शालयोः किष्कुरन्तरिका त्रिपदी वा
तयोश्चतुर्ऽङ्गुलं नीप्रान्तरम् नीव्रान्तरम्? समारूढकं वा
किष्कुमात्रं आणिद्वारं अन्तरिकायां खण्डफुल्लार्थं असम्पातं कारयेत्
प्रकाशार्थं अल्पं ऊर्ध्वं वातायनं कारयेत्
तद्ऽवसिते वेश्मनिच्छादयेत्
सम्भूय वा गृहस्वामिनो यथा इष्टं कारयेयुः, अनिष्टं वारयेयुः
वानलट्याश्च ऊर्ध्वं आवार्यभागं कटप्रच्छन्नं अवमर्शभित्तिं वा कारयेद् वर्षाबाधभयात्
तस्यातिक्रमे पूर्वः साहसदण्डः, प्रतिलोमद्वारवातायनबाधायां च, अन्यत्र राजमार्गरथ्याभ्यः
खातसोपानप्रणालीनिश्रेण्य्ऽवस्करभागैर्बहिर्बाधायां भोगनिग्रहे च
परकुड्यं उदकेन उपघ्नतो द्वादशपणो दण्डः, मूत्रपुरीष उपघाते द्विगुणः
प्रणालीमोक्षो वर्षति, अन्यथा द्वादशपणो दण्डः
प्रतिषिद्धस्य च वसतः, निरस्यतश्चावक्रयिणं अन्यत्र पारुष्यस्तेयसाहससङ्ग्रहणमिथ्याभोगेभ्यः
स्वयंऽभिप्रस्थितो वर्षावक्रयशेषं दद्यात्
सामान्ये वेश्मनि साहाय्यं अप्रयच्छतः, सामान्यं उपरुन्धतो भोगं च गृहे द्वादशपणो दण्डः
विनाशयतः तद्द्विगुणः
कोष्ठकाङ्गणवर्चानां अग्निकुट्टनशालयोः ।
विवृतानां च सर्वेषां सामान्यो भोग इष्यते