श्लोक ०३-०७

Kautilya Arthashastra by Acharya Chankya
परपरिग्रहे बीजं उत्सृष्टं क्षेत्रिणः इत्याचार्याः
माता भस्त्रा, यस्य रेतः तस्यापत्यम् इत्यपरे
विद्यमानं उभयं इति कौटिल्यः
स्वयञ्जातः कृतक्रियायां औरसः
तेन तुल्यः पुत्रिकापुत्रः
सगोत्रेणान्यगोत्रेण वा नियुक्तेन क्षेत्रजातः क्षेत्रजः पुत्रः
जनयितुरसत्यन्यस्मिन् पुत्रे स एव द्विपितृको द्विगोत्रो वा द्वयोरपि स्वधारिक्थभाग् भवति
तत्सधर्मा बन्धूनां गृहे गूढजातः तु गूढजः
बन्धुना उत्सृष्टोऽपविद्धः संस्कर्तुः पुत्रः
कन्यागर्भः कानीनः
सगर्भ ऊढायाः सह ऊढः
पुनर्भूतायाः पौनर्भवः
स्वयञ्जातः पितुर्बन्धूनां च दायादः
परजातः संस्कर्तुरेव न बन्धूनाम्
तत्सधर्मा मातापितृभ्यां अद्भिर्मुक्तो दत्तः
स्वयं बन्धुभिर्वा पुत्रभाव उपगत उपगतः
पुत्रत्वेऽधिकृतः कृतकः
परिक्रीतः क्रीतः इति ।
औरसे तु उत्पन्ने सवर्णाः तृतीयांशहराः, असवर्णा ग्रासाच्छादनभागिनः
ब्राह्मणक्षत्रिययोरनन्तरापुत्राः सवर्णाः, एकान्तरा असवर्णाः
ब्राह्मणस्य वैश्यायां अम्बष्ठः, शूद्रायां निषादः पारशवो वा
क्षत्रियस्य शूद्रायां उग्रः
शूद्र एव वैश्यस्य
सवर्णासु च एषां अचरितव्रतेभ्यो जाता व्रात्याः
इत्यनुलोमाः
शूद्राद् आयोगवक्षत्तचण्डालाः
वैश्यान् मागधवैदेहकौ
क्षत्रियात् सूतः
पौराणिकः त्वन्यः सूतो मागधश्च, ब्रह्मक्षत्राद् विशेषः
त एते प्रतिलोमाः स्वधर्मातिक्रमाद् राज्ञः सम्भवन्ति
उग्रान्नैषाद्यां कुक्कुटः, विपर्यये पुल्कसः
वैदेहिकायां अम्बष्ठाद् वैणः, विपर्यये कुशीलवः
क्षत्तायां उग्रात्श्वपाकः
इत्येतेऽन्ये चान्तरालाः
कर्मणा वैश्यो रथकारः
तेषां स्वयोनौ विवाहः, पूर्वापरगामित्वं वृत्तानुवृत्तं च
शूद्रसधर्माणो वा, अन्यत्र चण्डालेभ्यः
केवलं एवं वर्तमानः स्वर्गं आप्नोति राजा, नरकं अन्यथा
सर्वेषां अन्तरालानां समो विभागः
देशस्य जात्याः सङ्घस्य धर्मो ग्रामस्य वाऽपि यः ।
उचितः तस्य तेन एव दायधर्मं प्रकल्पयेत्