श्लोक ०३-०६

Kautilya Arthashastra by Acharya Chankya
एकस्त्रीपुत्राणां ज्येष्ठांशः - ब्राह्मणानां अजाः, क्षत्रियाणां अश्वाः, वैश्यानां गावः, शूद्राणां अवयः
काणलङ्गाः तेषां मध्यमांशः, भिन्नवर्णाः कनिष्ठांशः
चतुष्पदाभावे रत्नवर्जानां दशानां भागं द्रव्याणां एकं ज्येष्ठो हरेत्
प्रतिमुक्तस्वधापाशो हि भवति
इत्यौशनसो विभागः
पितुः परिवापाद् यानं आभरणं च ज्येष्ठांशः, शयनासनं भुक्तकांस्यं च मध्यमांशः, कृष्णं धान्यायसं गृहपरिवापो गोशकटं च कनिष्ठांशः
शेषद्रव्याणां एकद्रव्यस्य वा समो विभागः
अदायादा भगिन्यः, मातुः परिवापाद् भुक्तकांस्याभरणभागिन्यः
मानुषहीनो ज्येष्ठः तृतीयं अंशं ज्येष्ठांशाल्लभेत, चतुर्थं अन्यायवृत्तिः, निवृत्तधर्मकार्यो वा
कामाचारः सर्वं जीयेत
तेन मध्यमकनिष्ठौ व्याख्यातौ
तयोर्मानुष उपेतो ज्येष्ठांशाद् अर्धं लभेत
नानास्त्रीपुत्राणां तु संस्कृतासंस्कृतयोः कन्याकृतक्षतयोरभावे च एकस्याः पुत्रयोर्यमयोर्वा पूर्वजन्मना ज्येष्ठभावः
सूतमागधव्रात्यरथकाराणां ऐश्वर्यतो विभागः
शेषाः तं उपजीवेयुः
अनीश्वराः समविभागाः
चातुर्वर्ण्यपुत्राणां ब्राह्मणीपुत्रश्चतुरोऽंशान् हरेत्, क्षत्रियापुत्रस्त्रीन् अंशान्, वैश्यापुत्रो द्वावंशौ, एकं शूद्रापुत्रः
तेन त्रिवर्णद्विवर्णपुत्रविभागः क्षत्रियवैश्ययोर्व्याख्यातः
ब्राह्मणस्यानन्तरापुत्रः तुल्यांशः
क्षत्रियवैश्ययोरर्धांशः तुल्यांशो वा मानुष उपेतः
तुल्यातुल्ययोरेकपुत्रः सर्वं हरेत्, बन्धूंश्च बिभृयात्
ब्राह्मणानां तु पारशवः तृतीयं अंशं लभेत, द्वावंशौ सपिण्डः कुल्यो वाऽऽसन्नः, स्वधादानहेतोः
तद्ऽभावे पितुराचार्योऽन्तेवासी वा
क्षेत्रे वा जनयेद् अस्य नियुक्तः क्षेत्रजं सुतम् ।
मातृबन्धुः सगोत्रो वा तस्मै तत् प्रदिशेद् धनम्