अनीश्वराः पितृमन्तः स्थितपितृमातृकाः पुत्राः
तेषां ऊर्ध्वं पितृतो दायविभागः पितृद्रव्याणाम्
स्वयं।आर्जितं अविभाज्यं, अन्यत्र पितृद्रव्याद् उत्थितेभ्यः
पितृद्रव्याद् अविभक्त उपगतानां पुत्राः पौत्रा वा आचतुर्थाद् इत्यंशभाजः
तावद् अविच्छिन्नः पिण्डो भवति
विच्छिन्नपिण्डाः सर्वे समं विभजेरन्
अपितृद्रव्या विभक्तपितृद्रव्या वा सह जीवन्तः पुनर्विभजेरन्
यतश्च उत्तिष्ठेत स द्व्य्ऽंशं लभेत
द्रव्यं अपुत्रस्य सोदर्या भ्रातरः सहजीविनो वा हरेयुः कन्याश्च
रिक्थं पुत्रवतः पुत्रा दुहितरो वा धर्मिष्ठेषु विवाहेषु जाताः
तद्ऽभावे पिता धरमाणः
पित्र्ऽभावे भ्रातरो भ्रातृपुत्राश्च
अपितृका बहवोऽपि च भ्रातरो भ्रातृपुत्राश्च पितुरेकं अंशं हरेयुः
सोदर्याणां अनेकपितृकाणां पितृतो दायविभागः
पितृभ्रातृपुत्राणां पूर्वे विद्यमाने नापरं अवलम्बन्ते, ज्येष्ठे च कनिष्ठं अर्थग्राहिणम्
जीवद्विभागे पिता न एकं विशेषयेत्
न च एकं अकारणान्निर्विभजेत
पितुरसत्यर्थे ज्येष्ठाः कनिष्ठान् अनुगृह्णीयुः, अन्यत्र मिथ्यावृत्तेभ्यः
प्राप्तव्यवहाराणां विभागः
अप्राप्तव्यवहाराणां देयविशुद्धं मातृबन्धुषु ग्रामवृद्धेषु वा स्थापयेयुः आव्यवहारप्रापणात्, प्रोषितस्य वा
सम्निविष्टसमं असम्निविष्टेभ्यो नैवेशनिकं दद्युः, कन्याभ्यश्च प्रादानिकम्
ऋणरिक्थयोः समो विभागः
उदपात्राण्यपि निष्किञ्चना विभजेरन् इत्याचार्याः
छलं एतद् इति कौटिल्यः
सतोऽर्थस्य विभागो नासतः
एतावान् अर्थः सामान्यः तस्य एतावान् प्रत्य्ऽंश इत्यनुभाष्य ब्रुवन् साक्षिषु विभागं कारयेत्
दुर्विभक्तं अन्योन्यापहृतं अन्तर्हितं अविज्ञात उत्पन्नं वा पुनर्विभजेरन्
अदायादकं राजा हरेत् स्त्रीवृत्तिप्रेतकार्यवर्जं, अन्यत्र श्रोत्रियद्रव्यात्
तत् त्रैवेद्येभ्यः प्रयच्छेत्
पतितः पतिताज् जातः क्लीबश्चानंशाः, जड उन्मत्तान्धकुष्ठिनश्च
सति भार्यार्थे तेषां अपत्यं अतद्विधं भागं हरेत्
ग्रासाच्छादनं इतरे पतितवर्जाः
तेषां च कृतदाराणां लुप्ते प्रजनने सति ।
सृजेयुर्बान्धवाः पुत्रांः तेषां अंशान् प्रकल्पयेत्