पतिकुलान्निष्पतितायाः स्त्रियाः षट्पणो दण्डः, अन्यत्र विप्रकारात्
प्रतिषिद्धायां द्वादशपणः
प्रतिवेशगृहातिगतायाः षट्पणः
प्रातिवेशिकभिक्षुकवैदेहकानां अवकाशभिक्षापण्यदाने द्वादशपणो दण्डः
प्रतिषिद्धानां पूर्वः साहसदण्डः
परगृहातिगतायाश्चतुर्विंशतिपणः
परभार्याऽवकाशदाने शत्यो दण्डः, अन्यत्रापद्भ्यः
वारणाज्ञानयोर्निर्दोषः
पतिविप्रकारात् पतिज्ञातिसुखावस्थग्रामिकान्वाधिभिक्षुकीज्ञातिकुलानां अन्यतमं अपुरुषं गन्तुं अदोषः इति आचार्याः
स-पुरुषं वा ज्ञातिकुलम्
कुतो हि साध्वीजनस्यच्छलम्
सुखं एतद् अवबोद्धुं, इति कौटिल्यः
प्रेतव्याधिव्यसनगर्भनिमित्तं अप्रतिषिद्धं एव ज्ञातिकुलगमनम्
तन्निमित्तं वारयतो द्वादशपणो दण्डः
तत्रापि गूहमाना स्त्रीधनं जीयेत, ज्ञातयो वा छादयन्तः शुल्कशेषम् इति निष्पतनम् ।
पतिकुलान्निष्पत्य ग्रामान्तरगमने द्वादशपणो दण्डः स्थाप्याऽऽभरणलोपश्च
गम्येन वा पुंसा सह प्रस्थाने चतुर्विंशतिपणः सर्वधर्मलोपश्च, अन्यत्र भर्मदानतीर्थगमनाभ्याम्
पुंसः पूर्वः साहसदण्डः तुल्यश्रेयसोः, पापीयसो मध्यमः
बन्धुर्ऽदण्ड्यः
प्रतिषेधेऽर्धदण्डाः
पथि व्यन्तरे गूढदेशाभिगमने मैथुनार्थेन शङ्कितप्रतिषिद्धायां वा पथ्य्ऽनुसरणे सङ्ग्रहणं विद्यात्
तालावचरचारणमत्स्यबन्धकलुब्धकगोपालकशौण्डिकानां अन्येषां च प्रसृष्टस्त्रीकाणां पथ्य्ऽनुसरणं अदोषः
प्रतिषिद्धे वा नयतः पुंसः स्त्रियो वा गच्छन्त्याः त एवार्धदण्डाः इति पथ्य्ऽनुसरणम् ।
ह्रस्वप्रवासिनां शूद्रवैश्यक्षत्रियब्राह्मणानां भार्याः संवत्सर उत्तरं कालं आकाङ्क्षेरन् अप्रजाताः, संवत्सराधिकं प्रजाताः
प्रतिविहिता द्विगुणं कालम्
अप्रतिविहिताः सुखावस्था बिभृयुः, परं चत्वारि वर्षाण्यष्टौ वा ज्ञातयः
ततो यथादत्तं आदाय प्रमुञ्चेयुः
ब्राह्मणं अधीयानं दशवर्षाण्यप्रजाता, द्वादश प्रजाता, राजपुरुषं आयुःक्षयाद् आकाङ्क्षेत
सवर्णतश्च प्रजाता नापवादं लभेत
कुटुम्ब।ऋद्धिलोपे वा सुखावस्थैर्विमुक्ता यथा इष्टं विन्देत, जीवितार्थं आपद्गता वा
धर्मविवाहात् कुमारी परिग्रहीतारं अनाख्याय प्रोषितं अश्रूयमाणं सप्त तीर्थान्याकाङ्क्षेत, संवत्सरं श्रूयमाणम्
आख्याय प्रोषितं अश्रूयमाणं पञ्च तीर्थान्याकाङ्क्षेत, दश श्रूयमाणम्
एकदेशदत्तशुल्कं त्रीणि तीर्थान्यश्रूयमाणं, श्रूयमाणं सप्त तीर्थान्याकाङ्क्षेत
दत्तशुल्कं पञ्च तीर्थान्यश्रूयमाणं, दश श्रूयमाणम्
ततः परं धर्मस्थैर्विसृष्टा यथा इष्टं विन्देत
तीर्थ उपरोधो हि धर्मवध इति कौटिल्यः इति ह्रस्वप्रवासः ॥
दीर्घप्रवासिनः प्रव्रजितस्य प्रेतस्य वा भार्या सप्त तीर्थान्याकाङ्क्षेत, संवत्सरं प्रजाता
ततः पतिसोदर्यं गच्छेत्
बहुषु प्रत्यासन्नं धार्मिकं भर्मसमर्थं कनिष्ठं अभार्यं वा
तद्ऽभावेऽप्यसोदर्यं सपिण्डं कुल्यं वाऽऽसन्नम्
एतेषां एष एव क्रमः
एतान् उत्क्रम्य दायादान् वेदने जारकर्मणि ।
जारस्त्रीदातृवेत्तारः सम्प्राप्ताः सङ्ग्रहात्ययम्