श्लोक ०३-०३

Kautilya Arthashastra by Acharya Chankya
द्वादशवर्षा स्त्री प्राप्तव्यवहारा भवति, षोडशवर्षः पुमान्
अत ऊर्ध्वं अशुश्रूषायां द्वादशपणः स्त्रिया दण्डः, पुंसो द्विगुणः इति शुश्रूषा ।
भर्मण्यायां अनिर्दिष्टकालायां ग्रासाच्छादनं वाऽधिकं यथापुरुषपरिवापं सविशेषं दद्यात्
निर्दिष्टकालायां तद् एव सङ्ख्याय बन्धं च दद्यात्
शुल्कस्त्रीधनाधिवेदनिकानां अनादाने च
श्वशुरकुलप्रविष्टायां विभक्तायां वा नाभियोज्यः पतिः इति भर्म ।
नष्टे विनष्टे न्यङ्गे अपितृके अमातृके इत्यनिर्देशेन विनयग्राहणम्
वेणुदलरज्जुहस्तानां अन्यतमेन वा पृष्ठे त्रिराघातः
तस्यातिक्रमे वाग्दण्डपारुष्यदण्डाभ्यां अर्धदण्डाः
तद् एव स्त्रिया भर्तरि प्रसिद्धदोषायाः
ईर्ष्यया बाह्यविहारेषु द्वारेष्वत्ययो यथानिर्दिष्टः इति पारुष्यम् ।
भर्तारं द्विषती स्त्री सप्तार्तवान्यमण्डयमाना तदानीं एव स्थाप्याभरणं निधाय भर्तारं अन्यया सह शयानं अनुशयीत
भिक्षुक्य्ऽन्वाधिज्ञातिकुलानां अन्यतमे वा भर्ता द्विषन् स्त्रियं एकां अनुशयीत
दृष्टलिङ्गे मैथुनापहारे सवर्णापसर्प उपगमे वा मिथ्यावादी द्वादशपणं दद्यात्
अमोक्ष्या भर्तुरकामस्य द्विषती भार्या, भार्यायाश्च भर्ता
परस्परन्द्वेषान् मोक्षः
स्त्रीविप्रकाराद् वा पुरुषश्चेन् मोक्षं इच्छेद् यथागृहीतं अस्यै दद्यात्
पुरुषविप्रकाराद् वा स्त्री चेन् मोक्षं इच्छेन्नास्यै यथागृहीतं दद्यात्
अमोक्षो धर्मविवाहानाम् इति द्वेषः ।
प्रतिषिद्धा स्त्री दर्पमद्यक्रीडायां त्रिपणं दण्डं दद्यात्
दिवा स्त्रीप्रेक्षाविहारगमने षट्पणो दण्डः, पुरुषप्रेक्षाविहारगमने द्वादशपणः
रात्रौ द्विगुणः
सुप्तमत्तप्रव्रजने भर्तुरदाने च द्वारस्य द्वादशपणः
रात्रौ निष्कसने द्विगुणः
स्त्रीपुंसयोर्मैथुनार्थेनाङ्गविचेष्टायां रहोऽश्लीलसम्भाषायां वा चतुर्विंशतिपणः स्त्रिया दण्डः, पुंसो द्विगुणः
केशनीविदन्तनखालम्बनेषु पूर्वः साहसदण्डः, पुंसो द्विगुणः
शङ्कितस्थाने सम्भाषायां च पणस्थाने शिफादण्डः
स्त्रीणां ग्राममध्ये चण्डालः पक्षान्तरे पञ्चशिफा दद्यात्
पणिकं वा प्रहारं मोक्षयेत् इत्यतीचारः ।
प्रतिषिद्धयोः स्त्रीपुंसयोरन्योन्य उपकारे क्षुद्रकद्रव्याणां द्वादशपणो दण्डः, स्थूलकद्रव्याणां चतुर्विंशतिपणः, हिरण्यसुवर्णयोश्चतुष्पञ्चाशत्पणः स्त्रिया दण्डः, पुंसोर्द्विगुणः
त एवागम्ययोरर्धदण्डाः, तथा प्रतिषिद्धपुरुषव्यवहारेषु च इति प्रतिषेधः ।
राजद्विष्टातिचाराभ्यां आत्मापक्रमणेन च ।
स्त्रीधनानीतशुल्कानां अस्वाम्यं जायते स्त्रियाः