विवाहपूर्वो व्यवहारः
कन्यादानं कन्यां अलङ्कृत्य ब्राह्मो विवाहः
सहधर्मचर्या प्राजापत्यः
गोमिथुनादानाद् आर्षः
अन्तर्वेद्यां ऋत्विजे दानाद् दैवः
मिथःसमवायाद् गान्धर्वः
शुल्कादानाद् आसुरः
प्रसह्यादानाद् राक्षसः
सुप्तमत्तादानात् पैशाचः
पितृप्रमाणाश्चत्वारः पूर्वे धर्म्याः, मातापितृप्रमाणाः शेषाः
तौ हि शुल्कहरौ दुहितुः, अन्यतराभावेऽन्यतरो वा
द्वितीयं शुल्कं स्त्री हरेत
सर्वेषां प्रीत्य्।आरोपणं अप्रतिषिद्धम् इति विवाहधर्मः ।
वृत्तिराबन्ध्यं वा स्त्रीधनम्
परद्विसाहस्रा स्थाप्या वृत्तिः, आबन्ध्यानियमः
तद् आत्मपुत्रस्नुषाभर्मणि प्रवासाप्रतिविधाने च भार्याया भोक्तुं अदोषः, प्रतिरोधकव्याधिदुर्भिक्षभयप्रतीकारे धर्मकार्ये च पत्युः, सम्भूय वा दम्पत्योर्मिथुनं प्रजातयोः
त्रिवर्ष उपभुक्तं च धर्मिष्ठेषु विवाहेषु नानुयुञ्जीत
गान्धर्वासुर उपभुक्तं स-वृद्धिकं उभयं दाप्येत, राक्षसपैशाच उपभुक्तं स्तेयं दद्यात्
मृते भर्तरि धर्मकामा तदानीं एव स्थाप्याभरणं शुल्कशेषं च लभेत
लब्ध्वा वा विन्दमाना स-वृद्धिकं उभयं दाप्येत
कुटुम्बकामा तु श्वशुरपतिदत्तं निवेशकाले लभेत
निवेशकालं हि दीर्घप्रवासे व्याख्यास्यामः
श्वशुरप्रातिलोम्येन वा निविष्टा श्वशुरपतिदत्तं जीयेत
ज्ञातिहस्ताद्ऽभिमृष्टाया ज्ञातयो यथागृहीतं दद्युः
न्याय उपगतायाः प्रतिपत्ता स्त्रीधनं गोपयेत्
पतिदायं विन्दमाना जीयेत
धर्मकामा भुञ्जीत
पुत्रवती विन्दमाना स्त्रीधनं जीयेत
तत् तु स्त्रीधनं पुत्रा हरेयुः
पुत्रभरणार्थं वा विन्दमाना पुत्रार्थं स्फातीकुर्यात्
बहुपुरुषप्रजानां पुत्राणां यथापितृदत्तं स्त्रीधनं अवस्थापयेत्
कामकरणीयं अपि स्त्रीधनं विन्दमाना पुत्रसंस्थं कुर्यात्
अपुत्रा पतिशयनं पालयन्ती गुरुसमीपे स्त्रीधनं आयुःक्षयाद् भुञ्जीत
आपद्ऽर्थं हि स्त्रीधनम्
ऊर्ध्वं दायादं गच्छेत्
जीवति भर्तरि मृतायाः पुत्रा दुहितरश्च स्त्रीधनं विभजेरन्, अपुत्राया दुहितरः, तद्ऽभावे भर्ता
शुल्कं अन्वाधेयं अन्यद् वा बन्धुभिर्दत्तं बान्धवा हरेयुः इति स्त्रीधनकल्पः ।
वर्षाण्यष्टावप्रजायमानां अपुत्रां वन्ध्यां चाकाङ्क्षेत, दश निन्दुं, द्वादश कन्याप्रसविनीम्
ततः पुत्रार्थी द्वितीयां विन्देत
तस्यातिक्रमे शुल्कं स्त्रीधनं अर्धं चाधिवेदनिकं दद्यात्, चतुर्विंशतिपणपरं च दण्डम्
शुल्कं स्त्रीधनं अशुल्कस्त्रीधनायाः तत्प्रमाणं आधिवेदनिकं अनुरूपां च वृत्तिं दत्त्वा बह्वीरपि विन्देत
पुत्रार्था हि स्त्रियः
तीर्थसमवाये चासां यथाविवाहं पूर्व ऊढां जीवत्पुत्रां वा पूर्वं गच्छेत्
तीर्थगूहनागमने षण्ँअवतिर्दण्डः
पुत्रवतीं धर्मकामां वन्ध्यां निन्दुं नीरजस्कां वा नाकामां उपेयात्
न चाकामः पुरुषः कुष्ठिनीं उन्मत्तां वा गच्छेत्
स्त्री तु पुत्रार्थं एवम्भूतं वा उपगच्छेत्
नीचत्वं परदेशं वा प्रस्थितो राजकिल्बिषी ।
प्राणाभिहन्ता पतितः त्याज्यः क्लीबोऽपि वा पतिः