श्लोक ०३-०१

Kautilya Arthashastra by Acharya Chankya
धर्मस्थाः त्रयः त्रयोऽमात्या जनपदसन्धिसङ्ग्रहणद्रोणमुखस्थानीयेषु व्यावहारिकान् अर्थान् कुर्युः
तिरोहितान्तर्ऽगारनक्तारण्य उपध्य्।उपह्वरकृतांश्च व्यवहारान् प्रतिषेधयेयुः
कर्तुः कारयितुः पूर्वः साहसदण्डः
श्रोतॄणां एक एकं प्रत्यर्धदण्डाः
श्रद्धेयानां तु द्रव्यव्यपनयः
परोक्षेणाधिक।ऋणग्रहणं अवक्तव्यकरा वा तिरोहिताः सिध्येयुः
दायनिक्षेप उपनिधिविवाहयुक्ताः स्त्रीणां अनिष्कासिनीनां व्याधितानां चामूढसंज्ञानां अन्तर्ऽगारकृताः सिध्येयुः
साहसानुप्रवेशकलहविवाहराजनियोगयुक्ताः पूर्वरात्रव्यवहारिणां च रात्रिकृताः सिध्येयुः
सार्थव्रजाश्रमव्याधचारणमध्येष्वरण्यचराणां अरण्यकृताः सिध्येयुः
गूढाजीविषु च उपधिकृताः सिध्येयुः
मिथःसमवाये च उपह्वरकृताः सिध्येयुः
अतोऽन्यथा न सिध्येयुः, अपाश्रयवद्भिश्च कृताः, पितृमता पुत्रेण, पित्रा पुत्रवता, निष्कुलेन भ्रात्रा, कनिष्ठेनाविभक्तांशेन, पतिमत्या पुत्रवत्या च स्त्रिया, दासाहितकाभ्यां, अप्राप्तातीतव्यवहाराभ्यां, अभिशस्तप्रव्रजितन्यङ्गव्यसनिभिश्च, अन्यत्र निषृष्टव्यवहारेभ्यः
तत्रापि क्रुद्धेनार्तेन मत्तेन उन्मत्तेनावगृहीतेन वा कृता व्यवहारा न सिध्येयुः
कर्तृकारयितृश्रोतॄणां पृथग् यथा उक्ता दण्डाः
स्वे स्वे तु वर्गे देशे काले च स्वकरणकृताः सम्पूर्णाचाराः शुद्धदेशा दृष्टरूपलक्षणप्रमाणगुणाः सर्वव्यवहाराः सिध्येयुः
पश्चिमं च एषां करणं आदेशाधिवर्जं श्रद्धेयम् इति व्यवहारस्थापना ।
संवत्सरं ऋतुं मासं पक्षं दिवसं करणं अधिकरणं ऋणं वेदकावेदकयोः कृतसमर्थावस्थयोर्देशग्रामजातिगोत्रनामकर्माणि चाभिलिख्य वादिप्रतिवादिप्रश्नान् अर्थानुपूर्व्या निवेशयेत्
निविष्टांश्चावेक्षेत
निबद्धं वादं उत्सृज्यान्यं वादं सङ्क्रामति, पूर्व उक्तं पश्चिमेनार्थेन नाभिसन्धत्ते, परवाक्यं अनभिग्राह्यं अभिग्राह्यावतिष्ठते, प्रतिज्ञाय देशं निर्दिश इत्युक्ते न निर्दिशति, हीनदेशं अदेशं वा निर्दिशति, निर्दिष्टाद् देशाद् अन्यं देशं उपस्थापयति, उपस्थिते देशेऽर्थवचनं न एवं इत्यपव्ययते, साक्षिभिरवधृतं न इच्छति, असम्भाष्ये देशे साक्षिभिर्मिथः सम्भाषते, इति परा उक्तहेतवः
परा उक्तदण्डः पञ्चबन्धः
स्वयंवादिदण्डो दशबन्धः
पुरुषभृतिरष्टांशः
पथिभक्तं अर्घविशेषतः
तद् उभयं नियम्यो दद्यात्
अभियुक्तो न प्रत्यभियुञ्जीत, अन्यत्र कलहसाहससार्थसमवायेभ्यः
न चाभियुक्तेऽभियोगेऽस्ति
अभियोक्ता चेत् प्रत्युक्तः तद्ऽहरेव न प्रतिब्रूयात् परा उक्तः स्यात्
कृतकार्यविनिश्चयो ह्यभियोक्ता नाभियुक्तः
तस्याप्रतिब्रुवतः त्रिरात्रं सप्तरात्रं इति
अत ऊर्ध्वं त्रिपणावरार्ध्यं द्वादशपणपरं दण्डं कुर्यात्
त्रिपक्षाद् ऊर्ध्वं अप्रतिब्रुवतः परा उक्तदण्डं कृत्वा यान्यस्य द्रव्याणि स्युः ततोऽभियोक्तारं प्रतिपादयेद्, अन्यत्र वृत्त्य्।उपकरणेभ्यः
तद् एव निष्पततोऽभियुक्तस्य कुर्यात्
अभियोक्तुर्निष्पातसमकालः परा उक्तभावः
प्रेतस्य व्यसनिनो वा साक्षिवचनं असारम्
अभियोक्ता दण्डं दत्त्वा कर्म कारयेत्
आधिं वा स कामं प्रवेशयेत्
रक्षोघ्नरक्षितं वा कर्मणा प्रतिपादयेद्, अन्यत्र ब्राह्मणात्
चतुर्वर्णाश्रमस्यायं लोकस्याचाररक्षणात् ।
नश्यतां सर्वधर्माणां राजा धर्मप्रवर्तकः
धर्मश्च व्यवहारश्च चरित्रं राजशासनम् ।
विवादार्थश्चतुष्पादः पश्चिमः पूर्वबाधकः
तत्र सत्ये स्थितो धर्मो व्यवहारः तु साक्षिषु ।
चरित्रं सङ्ग्रहे पुंसां राज्ञां आज्ञा तु शासनम्
राज्ञः स्वधर्मः स्वर्गाय प्रजा धर्मेण रक्षितुः ।
अरक्षितुर्वा क्षेप्तुर्वा मिथ्यादण्डं अतोऽन्यथा
दण्डो हि केवलो लोकं परं च इमं च रक्षति ।
राज्ञा पुत्रे च शत्रौ च यथादोषं समं धृतः
अनुशासद्द् हि धर्मेण व्यवहारेण संस्थया ।
न्यायेन च चतुर्थेन चतुर्ऽन्तां वा महीं जयेत्
संस्था या धर्मशास्त्रेण शास्त्रं वा व्यावहारिकम् ।
यस्मिन्न् अर्थे विरुध्येत धर्मेणार्थं विनिर्णयेत्
शास्त्रं विप्रतिपद्येत धर्मे न्यायेन केनचित् ।
न्यायः तत्र प्रमाणं स्यात् तत्र पाठो हि नश्यति
दृष्टदोषः स्वयंवादः स्वपक्षपरपक्षयोः ।
अनुयोगार्जवं हेतुः शपथश्चार्थसाधकः
पूर्व उत्तरार्थव्याघाते साक्षिवक्तव्यकारणे ।
चारहस्ताच्च निष्पाते प्रदेष्टव्यः पराजयः