श्लोक ०२-३६

Kautilya Arthashastra by Acharya Chankya
समाहर्तृवन्नागरिको नगरं चिन्तयेत्
दशकुलीं गोपो विंशतिकुलीं चत्वारिंशत्कुलीं वा
स तस्यां स्त्रीपुरुषाणां जातिगोत्रनामकर्मभिः जङ्घाग्रं आयव्ययौ च विद्यात्
एवं दुर्गचतुर्भागं स्थानिकश्चिन्तयेत्
धर्मावसथिनः पाषण्डिपथिकान् आवेद्य वासयेयुः, स्वप्रत्ययाश्च तपस्विनः श्रोत्रियांश्च
कारुशिल्पिनः स्वकर्मस्थानेषु स्वजनं वासयेयुः, वैदेहकाश्चान्योन्यं स्वकर्मस्थानेषु
पण्यानां अदेशकालविक्रेतारं अस्वकरणं च निवेदयेयुः
शौण्डिकपाक्वमांसिकाउदनिकरूपाजीवाः परिज्ञातं आवासयेयुः
अतिव्ययकर्तारं अत्याहितकर्माणं च निवेदयेयुः
चिकित्सकः प्रच्छन्नव्रणप्रतीकारकारयितारं अपथ्यकारिणं च गृहस्वामी च निवेद्य गोपस्थानिकयोर्मुच्येत, अन्यथा तुल्यदोषः स्यात्
प्रस्थितागतौ च निवेदयेत्, अन्यथा रात्रिदोषं भजेत
क्षेमरात्रिषु त्रिपणं दद्यात्
पथिक उत्पथिकाश्च बहिर्ऽन्तश्च नगरस्य देवगृहपुण्यस्थानवनश्मशानेषु स-व्रणं अनिष्ट उपकरणं उद्भाण्डीकृतं आविग्नं अतिस्वप्नं अध्वक्लान्तं अपूर्वं वा गृह्णीयुः
एवं अभ्यन्तरे शून्यनिवेशावेशनशौण्डिकाउदनिकपाक्वमांसिकद्यूतपाषण्डावासेषु विचयं कुर्युः
अग्निप्रतीकारं च ग्रीष्मे
मध्यमयोरह्नश्चतुर्भागयोरष्टभागोऽग्निदण्डः
बहिर्ऽधिश्रयणं वा कुर्युः
पादः पञ्चघटीनां कुम्भद्रोणिनिह्श्रेणीपरशुशूर्पाङ्कुशकचग्रहणीदृतीनां चाकरणे
तृणकटच्छन्नान्यपनयेत्
अग्निजीविन एकस्थान् वासयेत्
स्वगृहप्रद्वारेषु गृहस्वामिनो वसेयुः असम्पातिनो रात्रौ
रथ्यासु कुटव्रजाः सहस्रं तिष्ठेयुः, चतुष्पथद्वारराजपरिग्रहेषु च
प्रदीप्तं अनभिधावतो गृहस्वामिनो द्वादशपणो दण्डः, षट्पणोऽवक्रयिणः
प्रमादाद् दीप्तेषु चतुष्पञ्चाशत्पणो दण्डः
प्रदीपिकोऽग्निना वध्यः
पांसुन्यासे रथ्यायां अष्टभागो दण्डः, पङ्क उदकसम्निरोधे पादः
राजमार्गे द्विगुणः
पण्यस्थान उदकस्थानदेवगृहराजपरिग्रहेषु पण उत्तरा विष्टादण्डाः, मूत्रेष्वर्धदण्डाः
भैषज्यव्याधिभयनिमित्तं अदण्ड्याः
मार्जारश्वनकुलसर्पप्रेतानां नगरस्यान्तर्।उत्सर्गे त्रिपणो दण्डः, खर उष्ट्राश्वतराश्वप्रेतानां षट्पणः, मनुष्यप्रेतानां पञ्चाशत्पणः
मार्गविपर्यासे शवद्वाराद् अन्यतश्च शवनिर्णयने पूर्वः साहसदण्डः
द्वाःस्थानां द्विशतम्
श्मशानाद् अन्यत्र न्यासे दहने च द्वादशपणो दण्डः
विषण्णालिकं उभयतोरात्रं यामतूर्यम्
तूर्यशब्दे राज्ञो गृहाभ्याशे सपादपणंऽक्षणताडनं प्रथमपश्चिमयामिकं, मध्यमयामिकं द्विगुणं, अन्तश्चतुर्गुणम्
शङ्कनीये देशे लिङ्गे पूर्वापदाने च गृहीतं अनुयुञ्जीत
राजपरिग्रह उपगमने नगररक्षाऽऽरोहणे च मध्यमः साहसदण्डः
सूतिकाचिकित्सकप्रेतप्रदीपयाननागरिकतूर्यप्रेक्षाऽग्निनिमित्तं मुद्राभिश्चाग्राह्याः
चाररात्रिषु प्रच्छन्नविपरीतवेषाः प्रव्रजिता दण्डशस्त्रहस्ताश्च मनुष्या दोषतो दण्ड्याः
रक्षिणां अवार्यं वारयतां वार्यं चावारयतां क्षणद्विगुणो दण्डः
स्त्रियं दासीं अधिमेहयतां पूर्वः साहसदण्डः, अदासीं मध्यमः, कृतावरोधां उत्तमः, कुलस्त्रियं वधः
चेतनाचेतनिकं रात्रिदोषं अशंसतो नागरिकस्य दोषानुरूपो दण्डः, प्रमादस्थाने च
नित्यं उदकस्थानमार्गभ्रमच्छन्नपथवप्रप्राकाररक्षाऽवेक्षणं नष्टप्रस्मृतापसृतानां च रक्षणम्
बन्धनागारे च बालवृद्धव्याधितानाथानां जातनक्षत्रपौर्णमासीषु विसर्गः
पण्यशीलाः समयानुबद्धा वा दोषनिष्क्रयं दद्युः
दिवसे पञ्चरात्रे वा बन्धनस्थान् विशोधयेत् ।
कर्मणा कायदण्डेन हिरण्यानुग्रहेण वा
अपूर्वदेशाधिगमे युवराजाभिषेचने ।
पुत्रजन्मनि वा मोक्षो बन्धनस्य विधीयते