समाहर्ता चतुर्धा जनाप्दं विभज्य ज्येष्ठमध्यमकनिष्ठविभागेन ग्रामाग्रं परिहारकं आयुधीयं धान्यपशुहिरण्यकुप्यविष्टिप्रतिकरं इदं एतावद् इति निबन्धयेत्
तत्प्रदिष्टः पञ्चग्रामीं दशग्रामीं वा गोपश्चिन्तयेत्
सीमावरोधेन ग्रामाग्रं, कृष्टाकृष्टस्थलकेदारारामषण्डवाटवनवास्तुचैत्यदेवगृहसेतुबन्धश्मशानसत्त्रप्रपापुण्यस्थानविवीतपथिसङ्ख्यानेन क्षेत्राग्रं, तेन सीम्नां क्षेत्राणां च करदाकरदसङ्ख्यानेन
तेषु च एतावच्चातुर्वार्ण्यं, एतावन्तः कर्षकगोरक्षकवैदेहककारुकर्मकरदासाश्च, एतावच्च द्विपदचतुष्पदं, इदं च एषु हिरण्यल्विष्टिशुल्कदण्डं समुत्तिष्ठति इति
कुलानां च स्त्रीपुरुषाणां बालवृद्धकर्मचरित्राजीवव्ययपरिमाणं विद्यात्
एवं च जनपदचतुर्भागं स्थानिकश्चिन्तयेत्
गोपस्थानिकस्थानेषु प्रदेष्टारः कार्यकरणं बलिप्रग्रहं च कुर्युः
समाहर्तृप्रदिष्टाश्च गृहपतिकव्यञ्जना येषु ग्रामेषु प्रणिहिताः तेषां ग्रामाणां क्षेत्रगृहकुलाग्रं विद्युः, मानसञ्जाताभ्यां क्षेत्राणि भोगपरिहाराभ्यां गृहाणि वर्णकर्मभ्यां कुलानि च
तेषां जङ्घाग्रं आयव्ययौ च विद्युः
प्रस्थितागतानां च प्रवासावासकारणं, अनर्थ्यानां च स्त्रीपुरुषाणां चारप्रचारं च विद्युः
एवं वैदेहकव्यञ्जनाः स्वभूमिजानां राजपण्यानां खनिसेतुवनकर्मान्तक्षेत्रजानां प्रमाणं अर्घं च विद्युः
परभूमिजातानां वारिस्थलपथ उपयातानां सारफल्गुपुण्यानां कर्मसु च शुल्कवर्तन्य्।आतिवाहिकगुल्मतरदेयभागभक्तपण्यागारप्रमाणं विद्युः
एवं समाहर्तृप्रदिष्टाः तापसव्यञ्जनाः कर्षकगोरक्षकवैदेहकानां अध्यक्षाणां च शौचाशौचं विद्युः
पुराण चोरव्यञ्जनाश्चान्तेवासिनश्चैत्यचतुष्पथशून्यपद उदपाननदीनिपानतीर्थायतनाश्रमारण्यशैलवनगहनेषु स्तेनामित्रप्रवीरपुरुषाणां च प्रवेशनस्थानगमनप्रयोजनान्युपलभेरन्
समाहर्ता जनपदं चिन्तयेद् एवं उत्थितः ।
चिन्तयेयुश्च संस्थाः ताः संस्थाश्चान्याः स्वयोनयः