श्लोक ०२-३४

Kautilya Arthashastra by Acharya Chankya
मुद्राऽध्यक्षो मुद्रां माषकेण दद्यात्
स-मुद्रो जनपदं प्रवेष्टुं निष्क्रमितुं वा लभेत
द्वादशपणं अमुद्रो जानपदो दद्यात्
कूटमुद्रायां पूर्वः साहसदण्डः तिरोजनपदस्य उत्तमः
विवीताध्यक्षो मुद्रां पश्येत्
ग्रामान्तरेषु च विवीतं स्थापयेत्
चोरव्यालभयान्निम्नारण्यानि शोधयेत्
अनुदके कूपसेतुबन्ध उत्सान् स्थापयेत्, पुष्पफलवाटांश्च
लुब्धकश्वगणिनः परिव्रजेयुररण्यानि
तस्करामित्राभ्यागमे शङ्खदुन्दुभिशब्दं अग्राह्याः कुर्युः शैलवृक्षाधिरूढा वा शीघ्रवाहना वा
अमित्राटवीसञ्चारं च राज्ञो गृहकपोतैर्मुद्रायुक्तैर्हारयेत्, धूमाग्निपरम्परया वा
द्रव्यहस्तिवनाजीवं वर्तनीं चोररक्षणम् ।
सार्थातिवाह्यं गोरक्ष्यं व्यवहारं च कारयेत्