अश्वाध्यक्षेण रथाध्यक्षो व्याख्यातः
स रथकर्मान्तान् कारयेत्
दशपुरुषो द्वादशान्तरो रथः
तस्माद् एकान्तरावरा आषड्ऽन्तराद् इति सप्त रथाः
देवरथपुष्यरथसाङ्ग्रामिकपारियाणिकपरपुराभियानिकवैनयिकांश्च रथान् कारयेत्
इष्व्ऽस्त्रप्रहरणावरण उपकरणकल्पनाः सारथिरथिकरथ्यानां च कर्मस्वायोगं विद्यात्, आकर्मभ्यश्च भक्तवेतनं भृतानां अभृतानां च योग्यारक्षाऽनुष्ठानं अर्थमानकर्म च
एतेन पत्त्य्ऽध्यक्षो व्याख्यातः
स मौलभृतश्रेणिमित्रामित्राटवीबलानां सारफल्गुतां विद्यात्, निम्नस्थलप्रकाशकूटखनकाकाशदिवारात्रियुद्धव्यायामं च, आयोगं अयोगं च कर्मसु
तेद् एव सेनापतिः सर्वयुद्धप्रहरणविद्याविनीतो हस्त्य्ऽश्वरथचर्यासङ्घुष्टश्चतुर्ऽङ्गस्य बलस्यानुष्ठानाधिष्ठानं विद्यात्
स्वभूमिं युद्धकालं प्रत्यनीकं अभिन्नभेदनं भिन्नसन्धानं संहतभेदनं भिन्नवधं दुर्गवधं यात्राकालं च पश्येत्
तूर्यध्वजपताकाभिर्व्यूहसंज्ञाः प्रकल्पयेत् ।
स्थाने याने प्रहरणे सैन्यानां विनये रतः