श्लोक ०२-३२

Kautilya Arthashastra by Acharya Chankya
कर्मस्कन्धाश्चत्वारो दम्यः साम्नाह्य औपवाह्यो व्यालश्च
तत्र दम्यः पञ्चविधः स्कन्धगतः स्तम्भगतो वारिगतोऽवपातगतो यूथगतश्च इति
तस्य उपविचारो विक्ककर्म
साम्नाह्यः सप्तक्रियापथ उपस्थानं संवर्तनं सम्यानं वधावधो हस्तियुद्धं नागरायणं साङ्ग्रामिकं च
तस्य उपविचारः कक्ष्याकर्म ग्रैवेयकर्म यूथकर्म च
औपवाह्योऽष्टविध आचरणः कुञ्जराउपवाह्यो धोरण आधानगतिको यष्ट्य्।उपवाह्यः तोत्र उपवाह्यः शुद्ध उपवाह्यो मार्गयुकश्च इति
तस्य उपविचारः शारदकर्म हीनकर्म नार उष्ट्रकर्म च
व्याल एकक्रियापथः शङ्कितोऽवरुद्धो विषमः प्रभिन्नः प्रभिन्नविनिश्चयो मदहेतुविनिश्चयश्च
तस्य-उपविचार आयम्य एकरक्षाकर्म
क्रियाविपन्नो व्यालः शुद्धः सुव्रतो विषमः सर्वदोषप्रदुष्टश्च
तेषां बन्धन उपकरणं अनीकस्थप्रमाणम्
आलानग्रैवेयकक्ष्यापारायणपरिक्षेप उत्तरादिकं बन्धनम्
अङ्कुशवेणुयन्त्रादिकं उपकरणम्
वैजयन्तीक्षुरप्रमालास्तरणकुथाऽऽदिकं भूषणम्
वर्मतोमरशरावापयन्त्रादिकः साङ्ग्रामिकालङ्कारः
चिकित्सकानीकस्थारोहकाधोरणहस्तिपकौपचारिकविधापाचकयावसिकपादपाशिककुटीर्रक्षकाउपशयैकादिरौपस्थायिकवर्गः
चिकित्सककुटीरक्षविधापाचकाः प्रस्थोदनं स्नेहप्रसृतिं क्षारलवणयोश्च द्विपलिकं हरेयुः, दशपलं मांसस्य, अन्यत्र चिकित्सकेभ्यः
पथिव्याधिकर्ममदजराऽभितप्तानां चिकित्सकाः प्रतिकुर्युः
स्थानस्याशुद्धिर्यवसस्याग्रहणं स्थले शायनं अभागे घातः परारोहणं अकाले यानं अभूमावतीर्थेऽवतारणं तरुषण्ड इत्यत्ययस्थानानि
तं एषां भक्तवेतनाद् आददीत
तिस्रो नीराजनाः कार्याश्चातुर्मास्य।ऋतुसन्धिषु ।
भूतानां कृष्णसन्धी इज्याः सेनान्यः शुक्लसन्धुषु
दन्तमूलपरीणाहद्विगुणं प्रोज्झ्य कल्पयेत् ।
अब्दे द्व्य्ऽर्धे नदीजानां पञ्चाब्दे पर्वतोकसाम्