श्लोक ०२-३१

Kautilya Arthashastra by Acharya Chankya
हस्त्य्ऽध्यक्षो हस्तिवनरक्षां दम्यकर्मक्षान्तानां हस्तिहस्तिनीकलभानां शालास्थानशय्याकर्मविधायवसप्रमाणं कर्मस्वायोगं बन्धन उपकरणं साङ्ग्रामिकं अलङ्कारं चिकित्सकानीकस्थाउपस्थायिकवर्गं चानुतिष्ठेत्
हस्त्य्।आयामद्विगुण उत्सेधविष्कम्भायामां हस्तिनीस्थानाधिकां सप्रग्रीवां कुमारीसङ्ग्रहां प्रान्मुखीं उदन्मुखीं वा शालां निवेशयेत्
हस्त्य्।आयामचतुर्ऽश्रश्लक्ष्णालानस्तम्भफलकास्तरकं स-मूत्रपुरीष उत्सर्गं स्थानं निवेशयेत्
स्थानसमां शय्यां अर्धापाश्रयां दुर्गे साम्नाह्याउपवाह्यानां बहिर्दम्यव्यालानाम्
प्रथमसप्तम अष्टमभागावह्नः स्नानकालौ, तद्ऽनन्तरं विधायाः
पूर्वाह्ने व्यायामकालः, पश्चाह्नः प्रतिपानकालः
रात्रिभागौ द्वौ स्वप्नकाला, त्रिभागः संवेशन उत्थानिकः
ग्रीष्मे ग्रहणकालः
विंशतिवर्षो ग्राह्यः
विक्को मोढो मक्कणो व्याथितो गर्भिणी धेनुका हस्तिनी चाग्राह्याः
सप्तारत्नि उत्सेधो नवायामो दश परिणाहः प्रमाणतश्चत्वारिंशद्वर्षो भवत्युत्तमः, त्रिंशद्वर्षो मध्यमः, पञ्चविंशतिवर्षोऽवरः
तयोः पादावरो विधाविधिः
अरत्नौ तणुलद्रोणः, अर्धाढकं तैलस्य, सर्पिषः त्रयः प्रस्थाः, दशपलं लवणस्य, मांसं पञ्चाशत्पलिकं, रसस्याढकं द्विगुणं वा दध्नः पिण्डक्लेदनार्थं, क्षारदशपलिकं मद्यस्याढकं द्विगुणं वा पयसः प्रतिपानं, गात्रावसेकः तैलप्रस्थः, शिरसोऽष्टभागः प्रादीपिकश्च, यवसस्य द्वौ भारौ स-पादौ, शष्पस्य शुष्कस्यार्धतृतीयो भारः, कडङ्करस्यानियमः
सप्तारत्निना तुल्यभोजनोऽष्टारत्निरत्यरालः
यथाहस्तं अवशेषः षड्ऽरत्निः पञ्चारत्निश्च
क्षीरयावसिको विक्कः क्रीडाऽर्थं ग्राह्यः
सञ्जातलोहिता प्रतिच्छन्ना सम्लिप्तपक्षा समकक्ष्या व्यतिकीर्णमांसा समतल्पतला जातद्रोणिका इति शोभाः
शोभावशेन व्यायामं भद्र्म मन्दं च कारयेत् ।
मृगं सङ्कीर्णलिङ्गं च कर्मस्वृतुवशेन वा