श्लोक ०२-३०

Kautilya Arthashastra by Acharya Chankya
अश्वाध्यक्षः पण्यागारिकं क्रय उपागतं आहवलब्धं आजातं साहाय्यागतकं पणस्थितं यावत्कालिकं वाऽश्वपर्यग्रं कुलवयोवर्णचिह्नवर्गागमैर्लेखयेत्
अप्रशस्तन्यङ्गव्याधितांश्चावेदयेत्
कोशकोष्ठागाराभ्यां च गृहीत्वा मासलाभं अश्ववाहश्चिन्तयेत्
अश्वविभवेनायतां अश्वायां अद्विगुणविस्तारां चतुर्द्वार उपावर्तनमध्यां स-प्रग्रीवां प्रद्वारासनफलकयुक्तानां वानरमयूरपृषतनकुलचकोरशुकसारिकाकीर्णां शालां निवेशयेत्
अश्वायां अचतुर्ऽश्रश्लक्ष्णफलकास्तारं स-खादनकोष्ठकं स-मूत्रपुरीष उत्सर्गं एक एकशः प्रान्मुखं उदन्मुखं वा स्थानं निवेशयेत्
शालावशेन वा दिग्विभागं कल्पयेत्
वडवावृषकिशोराणां एकान्तेषु
वडवायाः प्रजतायाः त्रिरात्रं घृतप्रस्थः पानम्
अत ऊर्ध्वं सक्तुप्रस्थः स्नेहभैषज्यप्रतिपानं दशरात्रम्
ततः पुलाको यवसं आर्तवश्चाहारः
दशरात्राद् ऊर्ध्वं किशोरस्य घृतचतुर्भागः सक्तुकुडुबः क्षीरप्रस्थश्चाहार आषण्मासात्
ततः परं मास उत्तरं अर्धवृद्धिर्यवप्रस्थ आत्रिवर्षात्, द्रोण आचतुर्वर्षात्
अत ऊर्ध्वं चतुर्वर्षः पञ्चवर्षो वा कर्मण्यः पूर्णप्रमाणः
द्वात्रिंशद्ऽङ्गुलं मुखं उत्तमाश्वस्य, पञ्चमुखान्यायामो, विंशत्य्ऽङ्गुला जङ्घा, चतुर्जङ्घ उत्सेधः
त्र्य्ऽङ्गुलावरं मध्यमावरयोः
शताङ्गुलः परिणाहः
पञ्चभागावरो मध्यमावरयोः
उत्तमाश्वस्य द्विद्रोणं शालिव्रीहियवप्रियङ्गूणां अर्धशुष्कं अर्धसिद्धं वा मुद्गमाषाणां वा पुलाकः स्नेहप्रस्थश्च, पञ्चपलं लवणस्य, मांसं पञ्चाशत्पलिकं रसस्याढकं द्विगुणं वा दध्नः पिण्डक्लेदनार्थं, क्षारपञ्चपलिकः सुरायाः प्रस्थः पयसो वा द्विगुणः प्रतिपानम्
दीर्घपथभारक्लान्तानां च खादनार्थं स्नेहप्रस्थोऽनुवासनं कुडुबो नस्यकर्मणः, यवसस्यार्धभारः तृणस्य द्विगुणः षड्ऽरत्निपरिक्षेपः पुञ्जीलग्रहो वा
पादावरं एतन् मध्यमावरयोः
उत्तमसमो रथ्यो वृषश्च मध्यमः
मध्यमसमश्चावरः
पादहीनं वडवानां पारशमानां च
अतोऽर्धं किशोराणां च
इति विधायोगः
विधापाचकसूत्रग्राहकचिकित्सकाः प्रतिस्वादभाजः
युद्धव्याधिजराकर्मक्षीणाः पिण्डगोचरिकाः स्युः
असमरप्रयोग्याः पौरजानपदानां अर्थेन वृषा वडवास्वायोज्याः
प्रयोग्यानां उत्तमाः काम्बोजसैन्धवारट्टवनायुजाः, मध्यमा बाह्लीकपापेयकसौवीरकतैतलाः, शेषाः प्रत्यवराः
तेषां तीष्क्णभद्रमन्दवशेन साम्नाह्यं औपवाह्यकं वा कर्म प्रयोजयेत्
चतुर्ऽश्रं कर्माश्वस्य साम्नाह्यम्
वल्गनो नीचैर्गतो लङ्घनो घोरणो नारोष्ट्रश्चाउपवाह्याः
तत्राउपवेणुको वर्धमानको यमक आलीढप्लुतः पृथुग्ऽस्त्रिकचाली च वल्गनः
स एव शिरःकर्णविशुद्धो नीचैर्गतः, षोडशमार्गो वा
प्रकीर्णकः प्रकीर्ण उत्तरो निषण्णः पार्श्वानुवृत्त ऊर्मिमार्गः शरभक्रीडितः शरभप्लुतः त्रितालो बाह्यानुवृत्तः पञ्चपाणिः सिंहायतः स्वाधूतः क्लिष्टः श्लिङ्गितो बृंहितः पुष्पाभिकीर्णश्च इति नीचैर्गतमार्गः
कपिप्लुतो भेकप्लुतेणप्लुत एकपादप्लुतः कोकिलसञ्चार्य्।उरस्यो बकचारी च लङ्घनः
काङ्को वारिकाङ्को मायूरोऽर्धमायूरो नाकुलोर्धनाकुलो वाराहोऽर्धवाराहश्च इति धोरणः
संज्ञाप्रतिकारो नार उष्ट्र इति
षण्णव द्वादश इति योजनान्य्ध्वा रथ्यानां, पञ्च योजनान्यर्धाष्टमानि दश इति पृष्ठवाहिनां अश्वानां अध्वा
विक्रमो भद्राश्वासो भारवाह्य इति मार्गाः
विक्रमो वल्गितं उपकण्ठं उपजवो जवश्च धाराः
तेषां बन्धन उपकरणं योग्याचार्याः प्रतिदिशेयुः, साङ्ग्रामिकं रथाश्वालङ्कारं च सूताः
अश्वानां चिकित्सकाः शरीरह्रासवृद्धिप्रतीकारं ऋतुविभक्तं चाहारम्
सूत्रग्राहकाश्वबन्धकयावसिकविधापाचकस्थानपालकेशकारजाङ्गुलीविदश्च स्वकर्मभिरश्वान् आराधयेयुः
कर्मातिक्रमे च एषां दिवसवेतनच्छेदनं कुर्यात्
नीराजन उपरुद्धं वाहयतश्चिकित्सक उपरुद्धं वा द्वादशपणो दण्डः
क्रियाभैषज्यसङ्गेन व्याधिवृद्धौ प्रतीकारद्विगुणो दण्डः
तद्ऽपराधेन वैलोम्ये पत्त्रमूल्यं दण्डः
तेन गोमण्डलं खर उष्ट्रमहिषं अजाविकं च व्याख्यातम्
द्विरह्नः स्नानं अश्वानां गन्धमाल्यं च दापयेत् ।
कृष्णसन्धिषु भूत इज्याः शुक्लेषु स्वस्तिवाचनम्
नीराजनां आश्वयुजे कारयेन्नवमेऽहनि ।
यात्राऽऽदाववसाने वा व्याधौ वा शान्तिके रतः