श्लोक ०२-२९

Kautilya Arthashastra by Acharya Chankya
गोऽध्यक्षो वेतन उपग्राहिकं करप्रतिकरं भग्न उत्सृष्टकं भागानुप्रविष्टकं व्रजपर्यग्रं नष्टं विनष्टं क्षीरघृतसञ्जातं च उपलभेत
गोपालकपिण्डारकदोहकमन्थकलुब्धकाः शतं शतं धेनूनां हिरण्यभृताः पालयेयुः
क्षीरघृतभृता हि वत्सान् उपहन्युः । इति वेतन उपग्राहिकम्
जरद्गुधेनुगर्भिणीपष्ठौहीवत्सतरीणां समविभागं रूपशतं एकः पालयेत्
घृतस्याष्टौ वारकान् पणिकं पुच्छं अङ्कचर्म च वार्षिकं दद्यात् । इति करप्रतिकरः
व्याधितान्यङ्गाऽनन्यदोहीदुर्दोहापुत्रघ्नीनां च समविभागं रूपशतं पालयन्तः तज्जातिकं भागं दद्युः । इति भग्न उत्षृष्टकम्
परचक्राटवीभयाद् अनुप्रविष्टानां पशूनां पालनधर्मेण दशभगं दद्युः । इति भागानुप्रविष्टकम्
वत्सा वत्सतरा दम्या वहिनो वृषा उक्षाणश्च पुङ्गवाः, युगवाहनशकटवहा वृषभाः सूनामहिषाः पृष्टस्कन्धवाहिनश्च महिषाः, वत्सिका वत्सतरी पष्टहुही गर्भिणी धेनुश्चाप्रजाता वन्ध्याश्च गावो महिष्यश्च, मासद्विमासजाताः तासां उपजा वत्सा वत्सिकाश्च
मासद्विमासजातान् अङ्कयेत्
मासद्विमासपर्युषितं अङ्कयेत्
अङ्कं चिह्नं वर्णं श‍ृङ्गान्तरं च लक्षणं एवं उपजा निबन्धयेत् । इति व्रजपर्यग्रम्
चोरहृतं अन्ययूथप्रविष्टं अवलीनं वा नष्टम्
पङ्कविषमव्याधिजरातोयाहारावसन्नं वृक्षतटकाष्ठशिलाऽभिहतं ईशानव्यालसर्पग्राहदावाग्निविपन्नं विनष्टम्
प्रमादाद् अभ्यावहेयुः
एवं रूपाग्रं विद्यात्
स्वयं हन्ता घातयिता हर्ता हारयिता च वध्यः
परपशूनां राजाङ्केन परिवर्तयिता रूपस्य पूर्वं साहसदण्डं दद्यात्
स्वदेशीयानां चोरहृतं प्रत्यानीय पणितं रूपं हरेत्
परदेशीयानां मोक्षयिताऽर्धं हरेत्
बालवृद्धव्याधितानां गोपालकाः प्रतिकुर्युः
लुब्धकश्वगणिभिरपास्तः तेनाव्यालपराबाधभयं ऋतुविभक्तं अरण्यं चारयेयुः
सर्पव्यालत्रासनार्थं गोचरानुपातज्ञानार्थं च त्रस्नूनां घण्टातूर्यं च बध्नीयुः
समव्यूढतीर्थं अकर्दमग्राहं उदकं अवतारयेयुः पालयेयुश्च
स्तेनव्यालसर्पग्राहगृहीतं व्याधिजराऽवसन्नं चावेदयेयुः, अन्यथा रूपमूल्यं भजेरन्
कारणमृतस्याङ्कचर्म गोमहिषस्य, कर्णलक्षणं अजाविकानां, पुच्छं अङ्कचर्म चाश्वखर उष्ट्राणां, बालचर्मबस्तिपित्तस्नायुदन्तखुरश‍ृङ्गास्थीनि चाहरेयुः
मांसं आर्द्रं शुष्कं वा विक्रीणीयुः
उदश्वित्श्ववराहेभ्यो दद्युः
कूर्चिकां सेनाभक्तार्थं आहरेयुः
किलाटो घाणपिण्याकक्लेदार्थः
पशुविक्रेता पादिकं रूपं दद्यात्
वर्षाशरद्धेमन्तान् उभयतःकालं दुह्युः, शिशिरवसन्तग्रीष्मान् एककालम्
द्वितीयकालदोग्धुरङ्गुष्ठच्छेदो दण्डः
दोहनकालं अतिक्रामतः तत्फलहानं दण्डः
एतेन नस्यदम्ययुगपिङ्गनवर्तनकाला व्याख्याताः
क्षीरद्रोणे गवां घृतप्रस्थः, पञ्चभागाधिको महिषीणां, द्विभागाधिकोऽजावीनाम्
मन्थो वा सर्वेषां प्रमाणम्
भूमितृण उदकविशेषाद्द् हि क्षीरघृतवृद्धिर्भवति
यूथवृषं वृषेणावपातयतः पूर्वः साहसदण्डः, घातयत उत्तमः
वर्णावरोधेन दशती रक्षा
उपनिवेशदिग्विभागो गोप्रचाराद् बलान्वयतो वा गवां रक्षासामर्थ्याच्च
अजावीनां षण्मासिकीमूर्णां ग्राहयेत्
तेनाश्वखर उष्ट्रवराहव्रजा व्याख्याताः
बलीवर्दानां नस्याश्वभद्रगतिवाहिनां यवसस्यार्धभारः तृणस्य द्विगुणं, तुला घाणपिण्याकस्य, दशाढकं कणकुण्डकस्य, पञ्चपलिकं मुखलवनां, तैलकुडुबो नस्यं प्रस्थः पानं, मांसतुला, दध्नश्चाढकं, यवद्रोणं माषाणां वा पुलाकः, क्षीरद्रोणं अर्धाढकं वा सुरायाः स्नेहप्रस्थः क्षारदशपलं श‍ृङ्गिबेरपलं च प्रतिपानम्
पाद ऊनं अश्वतरगोखराणां, द्विगुणं महिष उष्ट्राणाम्
कर्मकरबलीवर्दानां पायनार्थानां च धेनूनां कर्मकालतः फलतश्च विधादानम्
सर्वेषां तृण उदकप्राकाम्यम्
इति गोमण्डलं व्याख्यातम्
पञ्च।ऋषभं खराश्वानां अजावीनां दश।ऋषभम् ।
शत्यं गोमहिष उष्ट्राणां यूथं कुर्याच्चतुर्वृषम्