नाव्ऽध्यक्षः समुद्रसम्याननदीमुखतरप्रचारान् देवसरोविसरोनदीतरांश्च स्थानीयादिष्ववेक्षेत
तद्वेलाकूलग्रामाः क्लृप्तं दद्युः
मत्स्यबन्धका नौकाभाटकं षड्भागं दद्युः
पत्तनानुवृत्तं शुल्कभागं वणिजो दद्युः, यात्रावेतनं राजनौभिः सम्पतन्तः
शङ्खमुक्ताग्राहिणो नौभाटकं दद्युः, स्वनौभिर्वा तरेयुः
अध्यक्षश्च एषां खन्य्ऽध्यक्षेण व्याख्यातः
पत्तनाध्यक्षनिबद्धं पण्यपत्तनचारित्रं नाव्ऽध्यक्षः पालयेत्
मूढवाताहता नावः पिता इवानुगृह्णीयात्
उदकप्राप्तं पण्यं अशुल्कं अर्धशुल्कं वा कुर्यात्
यथानिर्दिष्टाश्च एताः पण्यपत्तनयात्राकालेषु प्रेषयेत्
सम्यातीर्नावः क्षेत्रानुगताः शुल्कं याचेत्
हिंस्रिका निर्घातयेत्, अमित्रविषयातिगाः पण्यपत्तनचारित्र उपघातिकाश्च
शासकनिर्यामकदार्त्राश्मिग्राहक उत्सेचकाधिष्ठिताश्च महानावो हेमन्तग्रीष्मतार्यासु महानदीषु प्रयोजयेत्, क्षुद्रिकाः क्षुद्रिकासु वर्षास्राविणीषु
बाधतीर्थाश्च एताः कार्या राजद्विष्टकारिणां तरणभयात्
अकालेऽतीर्थे च तरतः पूर्वः साहसदण्डः
काले तीर्थे चानिषृष्टतारिणः पाद ऊनसप्तविंशतिपणः तरात्ययः
कैवर्तकाष्टतृणभारपुष्पफलवाटषण्डगोपालकानां अनत्ययः, सम्भाव्यदूतानुपातिनां च सेनाभाण्डप्रयोगाणां च स्वतरणैः तरतां, बीजभक्तद्रव्य उपस्करांश्चानूपग्रामाणां तारयताम्
ब्राह्मणप्रव्रजितबालवृद्धव्याधितशासनहरगर्भिण्यो नाव्ऽध्यक्षमुद्राभिः तरेयुः
कृतप्रवेशाः पारविषयिकाः सार्थप्रमाणा वा प्रविशेयुः
परस्य भार्यां कन्यां वित्तं वाऽपहरन्तं शवित्तं वाऽपहरन्तं शङ्कितं आविग्नं उद्भाण्डीकृतं महाभाण्डेन मूर्ध्नि भारेणावच्छादयन्तं सद्योगृहीतलिङ्गिनं अलिङ्गिनं वा प्रव्रजितं अलक्ष्यव्याधितं भयविकारिणं गूढसारभाण्डशासनशस्त्राग्नियोगं विषहस्तं दीर्घपथिकं अमुद्रं च उपग्राहयेत्
क्षुद्रपशुर्मनुष्यश्च सभारो माषकं दद्यात्, शिरोभारः कायभारो गवाश्वं च द्वौ, उष्ट्रमहिषं चतुरः, पञ्च लभुयानं, षड् गोलिङ्गं, सप्त शकटं, पन्यभारः पादम्
तेन भाण्डभारो व्याख्यातः
द्विगुणो महानदीषु तरः
क्लृप्तं आनूपग्रामा भक्तवेतनं दद्युः
प्रत्यन्तेषु तराः शुल्कं आतिवाहिकं वर्तनीं च गृह्णीयुः, निर्गच्छतश्चामुद्रद्रव्यस्य भाण्डं हरेयुः, अतिभारेणावेलायां अतिर्थे तरतश्च
पुरुष उपकरणहीनायां असंस्कृतायां वा नावि विपन्नायां नाव्ऽध्ह्यक्षो नष्टं विनष्टं वाऽभ्यावहेत्
सप्ताहवृत्तां आषाढीं कार्त्तिकीं चान्तरा तरः ।
कार्मिकः प्रत्ययं दद्यान्नित्यं चाह्निकं आवहेत्