श्लोक ०२-२७

Kautilya Arthashastra by Acharya Chankya
गणिकाऽध्यक्षो गणिकाऽन्वयां अगणिकाऽन्वयां वा रूपयौवनशिल्पसम्पन्नां सहस्रेण गणिकां कारयेत्, कुटुम्बार्धेन प्रतिगणिकाम्
निष्पतिताप्रेतयोर्दुहिता भगिनी वा कुटुम्बं भरेत, माता वा प्रतिगणिकां स्थापयेत्
तासां अभावे राजा हरेत्
सौभाग्यालङ्कारवृद्ध्या सहस्रेण वारं कनिष्ठं मध्यमं उत्तमं वाऽऽरोपयेत् छत्रभृङ्गारव्यजनशिबिकापीठिकारथेषु च विशेषार्थम्
सौभाग्यभङ्गे मातृकां कुर्यात्
निष्क्रयश्चतुर्विंशतिसाहस्रो गणिकायाः, द्वादशसाहस्रो गणिकापुत्रस्य
अष्टवर्षात् प्रभृति राज्ञः कुशीलवकर्म कुर्यात्
गणिकादासी भग्नभोगा कोष्ठागारे महानसे वा कर्म कुर्यात्
अविशन्ती सपादपणं अवरुद्धा मासवेतनं दद्यात्
भोगं दायमायं व्ययं आयतिं च गणिकाया निबन्धयेत्, अतिव्ययकर्म च वारयेत्
मातृहस्ताद् अन्यत्र अभरणन्यासे सपादचतुष्पणो दण्डः
स्वापतेयं विक्रयं आधानं वा नयन्त्याः सपादपञ्चाशत्पणः पणोऽर्धपणच्छेदने
अकामायाः कुमार्या वा साहसे उत्तमो दण्डः, सकामायाः पूर्वः साहसदण्डः
गणिकां अकामां रुन्धतो निष्पातयतो वा व्रणविदारणेन वा रूपं।उपघ्नतः सहस्रं दण्डः
स्थान्विशेषेण वा दण्डवृद्धिः आनिष्क्रयद्विगुणात्
प्राप्ताधिकारं गणिकां घतयतो निष्क्रयत्रिगुणो दण्डः
मातृकादुहितृकारूपदासीनां घाते उत्तमः साहसदण्डः
सर्वत्र प्रथमेऽपराधे प्रथमः, द्वितीये द्विगुणः, तृतीये त्रिगुणः, चतुर्थे यथाकामी स्यात्
राजाज्ञया पुरुषं अनभिगच्छन्ती गणिका शिफासहस्रं लभीत, पञ्चसहस्रं वा दण्डः
भोगं गृहीत्वा द्विषत्या भोगद्विगुणो दण्डः
वसतिभोगापहारे भोगं अष्टगुणं दद्याद् अन्यत्र व्याधिपुरुषदोषेभ्यः
पुरुषं घ्नत्याश्चिताप्रतापेऽप्सु प्रवेशनं वा
गणिकाभरणं अर्थं भोगं वाऽपहरतोऽष्टगुणो दण्डः
गणिका भोगं आयतिं पुरुषं च निवेदयेत्
एतेन नटनर्तकगायनवादकवाग्जीवनकुशीलवप्लवकसौभिकचारणानां स्त्रीव्यवहारिणां स्त्रियो गूढाजीवाश्च व्याख्याताः
तेषां तूर्यं आगन्तुकं पञ्चपणं प्रेक्षावेतनं दद्यात्
रूपाजीवा भोगद्वयगुणं मासं दद्युः
गीतवाद्यपाठ्यनृत्यनाट्याक्षरचित्रवीणावेणुमृदङ्गपरचित्तज्ञानगन्धमाल्यसम्यूहनसंवादनसंवाहनवैशिककलाज्ञानानि गणिका दासी रङ्ग उपजीविनीश्च ग्राहयतो राजमण्डलाद् आजीवं कुर्यात्
गणिकापुत्रान् रङ्ग उपजीविनां च मुख्यान्निष्पादयेयुः, सर्वतालावचराणां च
संज्ञाभाषाऽन्तरज्ञाश्च स्त्रियः तेषां अनात्मसु ।
चारघातप्रमादार्थं प्रयोज्या बन्धुवाहनाः