सूनाऽध्यक्षः प्रदिष्टाभयानां अभयवनवासिनां च मृगपशुपक्षिमत्स्यानां बन्धवधहिंसायां उत्तमं दण्डं कारयेत्, कुटुम्बिनां अभयवनपरिग्रहेषु मध्यमम्
अप्रवृत्तवधानां मत्स्यपक्षिणां बन्धवधहिंसायां पाद ऊनसप्तविंशतिपणं अत्ययं कुर्यात्, मृगपशूनां द्विगुणम्
प्रवृत्तहिंसानां अपरिगृहीतानां षड्भागं गृह्णीयात्, मत्स्यपक्षिणां दशभागं वाऽधिकं, मृगपशूनां शुल्कं वाऽधिकम्
पक्षिमृगाणां जीवत् षड्भागं अभयवनेषु प्रमुञ्चेत्
सामुद्रहस्त्य्ऽश्वपुरुषवृषगर्दभाकृतयो मत्स्याः सारसा नादेयाः तटाककुल्या उद्भवा वा क्रौञ्च उत्क्रोशकदात्यूहहंसचक्रवाकजीवञ्जीवकभृङ्गराजचकोरमत्तकोकिलमयूरशुकमदनशारिका विहारपक्षिणो मङ्गल्याश्चान्येऽपि प्राणिनः पक्षिमृगा हिंसाबाधेभ्यो रक्ष्याः
रक्षाऽतिक्रमे पूर्वः साहसदण्डः
मृगपशूनां अनस्थिमांसं सद्योहतं विक्रीणीरन्
अस्थिमतः प्रतिपातं दद्युः
तुलाहीने हीनाष्टगुणम्
वत्सो वृषो धेनुश्च एषां अवध्याः
घ्नतः पञ्चाशत्को दण्डः, क्लिष्टघातं घातयतश्च
परिशूनं अशिरःपादास्थि विगन्धं स्वयंमृतं च न विक्रीणीरन्
अन्यथा द्वादशपणो दण्डः
दुष्टाः पशुमृगव्याला मत्स्यश्चाभयचारिणः ।
अन्यत्र गुप्तिस्थानेभ्यो वधबन्धं अवाप्नुयुः