सुराऽध्यक्षः सुराकिण्वव्यवहारान् दुर्गे जनपदे स्कन्धावारे वा तज्जातसुराकिण्वव्यवहारिभिः कारयेद्, एकमुखं अनेकमुखं वा विक्रयक्रयवशेन वा
षट्शतं अत्ययं अन्यत्र कर्तृक्रेतृविक्रेतॄणां स्थापयेत्
ग्रामाद् अनिर्णयणं असम्पातं च सुरायाः, प्रमादभयात् कर्मसु ञ्जिर्दिष्टानां, मर्यादातिक्रमभयाद् आर्याणां, उत्साहभयाच्च तीष्क्णानाम्
लक्षितं अल्पं वा चतुर्भागं अर्धकुडुबं कुडुबं अर्धप्रस्थं प्रस्थं वा इति ज्ञातशौचा निर्हरेयुः
पानागारेषु वा पिबेयुरसञ्चारिणः
निक्षेप उपनिधिप्रयोगापहृतानां अनिष्ट उपगतानां च द्रव्याणां ज्ञानार्थं अस्वामिकं कुप्यं हिरण्यं च उपलभ्य निष्केप्तारं अन्यत्र व्यपदेशेन ग्राहयेद्, अतिव्ययकर्तारं अनायतिव्ययं च
न चानर्घेण कालिकां वा सुरां दद्याद्, अन्यत्र दुष्टसुरायाः
तां अन्यत्र विक्रापयेत्
दासकर्मकरेभ्यो वा वेतनं दद्यात्
वाहनप्रतिपानं सूकरपोषणं वा दद्यात्
पानागाराण्य्ऽनेककक्ष्याणि विभक्तशयनासनवन्ति पान उद्देशानि गन्धमाल्य उदकवन्ति ऋतुसुखानि कारयेत्
तत्रस्थाः प्रकृत्य्ऽउत्पत्तिकौ व्ययौ गूढा विद्युः, आगन्तूंश्च
क्रेतॄणां मत्तसुप्तानां अलङ्कारात्छादनहिरण्यानि च विद्युः
तन्नाशे वणिजः तच्च तावच्च दण्डं दद्युः
वणिजश्ः तु संवृतेषु कक्ष्याविभागेषु स्वदासीभिः पेशलरूपाभिरागन्तूनां वास्तव्यानां चार्यरूपाणां मत्तसुप्तानां भावं विद्युः
मेदकप्रसन्नासवारिष्टमैरेयमधूनाम्
उदकद्रोणं तण्डुलानां अर्धाढकं त्रयः प्रस्थाः किण्वस्य इति मेदकयोगः
द्वादशाढकं पिष्टस्य पञ्च प्रस्थाः किण्वस्य क्रमुकत्वक्फलयुक्तो वा जातिसम्भारः प्रसन्नायोगः
कपित्थतुला फाणितं पञ्चतौलिकं प्रस्थो मधुन इत्यासवयोगः
U2.25.20 पाद्ऽधिको ज्येष्ठः पादहीनः कनिष्ठः
U2.25.21 चिकित्सकप्रमाणाः प्रत्येकशो विकाराणां अरिष्टाः
U2.25.22 मेषशृङ्गीत्वक्क्वाथाभिषुतो गुडप्रतीवापः पिप्पलीमरिचसम्भारः त्रिफलायुक्तो वा मैरेयः
U2.25.23 गुडयुक्तानां वा सर्वेषां त्रिफलासम्भारः
U2.25.24 मृद्वीकारसो मधु
u2.25.25 तस्य स्वदेशो व्याख्यानं कापिशायनं हारहूरकं इति
U2.25.26 माषकलनीद्रोणमामं सिद्धं वा त्रिभागाधिकतण्डुलं मोरटादीनां कार्षिकभागयुक्तं किण्वबन्धः
पाठालोघ्रतेजोवत्य्।एलावालुकमधुकमधुरसाप्रियङ्गुदारुहरिद्रामरिचपिप्पलीनां च पञ्चकार्षिकः सम्भारयोगो मेदकस्य प्रसन्नायाश्च
मधुकनिर्यूहयुक्ता कटशर्करा वर्णप्रसादनी च
चोचचित्रकविलङ्गगजपिप्पलीनां च कार्षिकः क्रमुकमधुकमुस्तालोध्राणां द्विकार्षिकश्चासवसम्भारः
दशभागश्च एषां बीजबन्धः
प्रसन्नायोगः श्वेतसुरायाः
सहकारसुरा रस उत्तरा बीज उत्तरा वा महासुरा सम्भारिकी वा
तासां मोरटापलाशपत्तूरमेषशृङ्गीकरञ्जक्षीरवृक्षकषायभावितं दग्धकटशर्कराचूर्णं लोघ्रचित्रकविलङ्गपाठामुस्ताकलिङ्गयवदारुहरिद्र इन्दीवरशतपुष्पापामार्गसप्तपर्णनिम्बास्फोतकल्कार्धयुक्तं अन्तर्नखो मुष्टिः कुम्भीं राजपेयां प्रसादयति
फाणितः पञ्चपलिकश्चात्र रसवृद्धिर्देयः
कुटुम्बिनः कृत्येषु श्वेतसुरां, औषधार्थं वारिष्टं, अन्यद् वा कर्तुं लभेरन्
उत्सवसमाजयात्रासु चतुर्ऽहः सौरिको देयः
तेष्वननुज्ञातानां प्रहवनान्तं दैवसिकं अत्ययं गृह्णीयात्
सुराकिण्वविचयं स्त्रियो बालाश्च कुर्युः
अराजपण्याः पञ्चकं शतं शुल्कं दद्युः, सुरकामेदकारिष्टमधुफलाम्लाम्लशीधूनां च
अह्नश्च विक्रयं ज्ञात्वा व्याजीं मानहिरण्ययोः ।
तथा वैधरणं कुर्याद् उचितं चानुवर्तयेत्