श्लोक ०२-२४

Kautilya Arthashastra by Acharya Chankya
सीताऽध्यक्षः कृषितन्त्रशुल्बवृक्षायुर्वेदज्ञः तज्ज्ञसखो वा सर्वधान्यपुष्पफलशाककन्दमूलवाल्लिक्यक्षौमकार्पासबीजानि यथाकालं गृह्णीयात्
बहुहलपरिकृष्टायां स्वभूमौ दासकर्मकरदण्डप्रतिकर्तृभिर्वापयेत्
कर्षणयन्त्र उपकरणबलीवर्दैश्च एषां असङ्गं कारयेत्, कारुभिश्च कर्मारकुट्टाकमेदकरज्जुवर्तकसर्पग्राहादिभिश्च
तेषां कर्मफलविनिपाते तत्फलहानं दण्डः
षोडशद्रोणं जाङ्गलानां वर्षप्रमाणं, अध्यर्धं आनूपानां देशवापानां, अर्धत्रयोदशाश्मकानां, त्रयोविंशतिरवन्तीनां, अमितं अपरान्तानां हैमन्यानां च, कुल्याऽऽवापानां च कालतः
वर्षत्रिभागः पूर्वपश्चिममासयोः, द्वौ त्रिभागौ मध्यमयोः - सुषमारूपम्
तस्य उपलधिर्बृहस्पतेः स्थानगमनगर्भाधानेभ्यः शुक्र उदयास्तमयचारेभ्यः सूर्यस्य प्रकृतिवैकृताच्च
सूर्याद् बीजसिद्धिः, बृहस्पतेः सस्यानां स्तम्बकारिता, शुक्राद् वृष्टिः । इति
त्रयः सप्ताहिका मेघा अशीतिः कणशीकराः ।
षष्टिरातपमेघानां एषा वृष्टिः समा हिता
वातं आतपयोगं च विभजन् यत्र वर्षति ।
त्रीन् करीषांश्च जनयंः तत्र सस्यागमो ध्रुवः
ततः प्रभूत उदकं अल्प उदकं वा सस्यं वापयेत्
शालिव्रीहिकोद्रवतिलप्रियङ्गु।उदारकवरकाः पूर्ववापाः
मुद्गमाषशैम्ब्या मध्यवापाः
कुसुम्भमसूरकुलत्थयवगोधूमकलायातसीसर्षपाः पश्चाद्वापाः
यथा।ऋतुवशेन वा बीजवापाः
वापातिरिक्तं अर्धसीतिकाः कुर्युः, स्ववीर्य उपजीविनो वा चतुर्थपञ्चभागिकाः
U2.24.17 यथा इष्टं अनवसितभागं दद्युः, अन्यत्र कृच्छ्रेभ्यः
U2.24.18 स्वसेतुभ्यो हस्तप्रावर्तिमं उदकभागं पञ्चमं दद्युः, स्कन्धप्रावर्तिमं चतुर्थं, स्रोतोयन्त्रप्रावर्तिमं च तृतीयं, चतुर्थं नदीसरस्तटाककूप उद्धाटम्
U2.24.19 कर्म उदकप्रमाणेन कैदारं हैमनं ग्रैष्मिकं वा सस्यं स्थापयेत्
U2.24.20 शाल्य्।आदि ज्येष्ठं, षण्डो मध्यमः, इक्षुः प्रत्यवरः
इक्षवो हि बह्व्।आबाधा व्ययग्राहिणश्च
फेनाघातो वल्लीफलानां, परीवाहान्ताः पिप्पलीमृद्वीक इक्षूणां, कूपपर्यन्ताः शाकमूलानां, हरणीपर्यन्ता हरितकानां, पाल्यो लवानां गन्धभैषज्य उशीरह्रीबेरपिण्डालुकादीनाम्
यथास्वं भूमिषु च स्थाल्याश्चानूप्याश्चोषधीः स्थापयेत्
तुषारपायनमुष्णशोषणं चासप्तरात्राद् इति धान्यबीजानां, त्रिरात्रं वा पञ्चरात्रं वा कोशीधान्यानां, मधुघृतसूकरवसाभिः शकृद्युक्ताभिः काण्डबीजानां छेदलेपो, मधुघृतेन कन्दानां, अस्थिबीजानां शकृद्।आलेपः, शाखिनां गर्तदाहो गोऽस्थिशकृद्भिः काले दौह्र्दं च
प्ररूढांश्चाशुष्ककटुमत्स्यांश्च स्नुहिक्षीरेण पाययेत्
कार्पाससारं निर्मोकं सर्पस्य च समाहरेत् ।
न सर्पाः तत्र तिष्ठन्ति धूमो यत्र एष तिष्ठति
सर्वजीजानां तु प्रथमवापे सुवर्ण उदकसम्प्लुतां पूर्वमुष्टिं वापयेद्, अमुं च मन्त्रं ब्रूयात् - प्रजापतये काश्यपाय देवाय च नमः सदा । सीता मे ऋध्यतां देवी बीजेषु च धनेषु च
षण्डवाटगोपालकदासकर्मकरेभ्यो यथापुरुषपरिवापं भक्तं कुर्यात्, स-पादपणिकं च मासं दद्यात्
कर्मानुरूपं कारुभ्यो भक्तवेतनम्
प्रशीर्णं च पुष्पफलं देवकार्यार्थं व्रीहियवं आग्रयणार्थं श्रोत्रियाः तपस्विनश्चाहरेयुः, राशिमूलं उञ्छवृत्तयः
यथाकालं च सस्यादि जातं जातं प्रवेशयेत् ।
न क्षेत्रे स्थापयेत् किञ्चित् पलालं अपि पण्डितः
प्राकाराणां समुच्छ्रयान् वलभीर्वा तथाविधाः ।
न संहतानि कुर्वीत न तुच्छानि शिरांसि च
खलस्य प्रकरान् कुर्यान् मण्डलान्ते समाश्रितान् ।
अनग्निकाः स-उदकाश्च खले स्युः परिकर्मिणः