सूत्राध्यक्षः सूत्रवर्मवस्त्ररज्जुव्यवहारं तज्जातपुरुषैः कारयेत्
ऊर्णावल्ककार्पासतूलशणक्षौमाणि च विधवान्यङ्गाकन्याप्रव्रजितादण्डप्रतिकारिणीभी रूपाजीवामातृकाभिर्वृद्धराजदासीभिर्व्युपरत उपस्थानदेवदासीभिश्च कर्तयेत्
श्लक्ष्णस्थूलमध्यतां च सूत्रस्य विदित्वा वेतनं कल्पयेत्, बह्व्ऽल्पतां च
सूत्रप्रमाण ज्ञात्वा तैलामलक उद्वर्तनैरेता अनुगृह्णीयात्
तिथिषु प्रतिमानदानैश्च कर्म कारयितव्याः
सूत्रह्रासे वेतनह्रासो द्रव्यसारात्
कृतकर्मप्रमाणकालवेतनफलनिष्पत्तिभिः कारुभिश्च कर्म कारयेत्, प्रतिसंसर्गं च गच्छेत्
क्षौमदुकूलक्रिमितानराङ्कवकार्पाससूत्रवानकर्मान्तांश्च प्रयुञ्जानो गन्धमाल्यदानैरन्यैश्चाउपग्राहिकैराराधयेत्
वस्त्रास्तरणप्रावरणविकल्पान् उत्थापयेत्
कङ्कटकर्मान्तांश्च तज्जातकारुशिल्पिभिः कारयेत्
याश्चानिष्कासिन्यः प्रोषिता विधवा न्यङ्गाः कन्यका वाऽऽत्मानं बिभृयुः ताः स्वदासीभिरनुसार्य स-उपग्रहं कर्म कारयितव्याः
स्वयं आगच्छन्तीनां वा सूत्रशालां प्रत्युषसि भाण्डवेतनविनिमयं कारयेत्
सूत्रपरीक्षाऽर्थमात्रः प्रदीपः
स्त्रिया मुखसन्दर्शनेऽन्यकार्यसम्भाषायां वा पूर्वः साहसदण्डः, वेतनकालातिपातने मध्यमः, अकृतकर्मवेतनप्रदाने च
गृहीत्वा वेतनं कर्माकुर्वत्या अङ्गुष्ठसन्दंशं दापयेत्, भक्षितापहृतावस्कन्दितानां च
वेतनेषु च कर्मकराणां अपराधतो दण्डः
रज्जुवर्तकैर्वर्मकारैश्च स्वयं संसृज्येत
भाण्डानि च वरत्रादीनि वर्तयेत्
सूत्रवल्कमयी रज्जुर्वरत्रा वैत्रवैणवीः ।
साम्नाह्या बन्धनीयाश्च यानयुग्यस्य करयेत्