बाह्यं आभ्यन्तरं चातिथ्यम्
निष्क्राम्यं प्रवेश्यं च शुल्कम्
प्रवेश्यानां मूल्यपञ्चभागः
पुष्पफलशाकमूलकन्दवाल्लिक्यबीजशुष्कमत्स्यमांसानां षड्भागं गृह्णीयात्
शङ्खवज्रमणिमुक्ताप्रवालहाराणां तज्जातपुरुषैः कारयेत् कृतकर्मप्रमाणकालवेतनफलनिष्पत्तिभिः
क्षौमदुकूलक्रिमितानकङ्कटहरितालमनःशिलाऽञ्जनहिङ्गुलुकलोहवर्णधातूनां चन्दनागुरुकटुककिण्वावराणां चर्मदन्तास्तरणप्रावरणक्रिमिजातानां आज एडकस्य च दशभागः पञ्चदशभागो वा
वस्त्रचतुष्पदद्विपदसूत्रकार्पासगन्धभैषज्यकाष्ठवेणुवल्कलचर्ममृद्भाण्डानां धान्यस्नेहक्षारलवणमद्यपक्वान्नादीनां च विंशतिभागः पञ्चविंशतिभागो वा
द्वारादेयं शुल्कं पञ्चभागः आनुग्राहिकं वा यथादेश उपकारं स्थापय्तेत्
जातिभूमिषु च पण्यानां विक्रयः
खनिभ्यो धातुपण्यादाने षट्छतं अत्ययः
पुष्पफलवाटेभ्यः पुष्पफलादाने चतुष्पञ्चाशत्पणो दण्डः
षण्डेभ्यः शाकमूलकन्दादाने पाद ऊनं द्विपञ्चाशत्पणो दण्डः
क्षेत्रेभ्यः सर्वसस्यादाने त्रिपञ्चाशत्पणः
पणोऽध्यर्धपणश्च सीताऽत्ययः
अतो नवपुराणां देशजातिचरित्रतः ।
पण्यानां स्थापयेच्शुक्लं अत्ययं चापकारतः