श्लोक ०२-२१

Kautilya Arthashastra by Acharya Chankya
शुल्काध्यक्षः शुल्कशालां ध्वजं च प्रान्मुखं उदन्मुखं वा महाद्वाराभ्याशे निवेशयेत्
शुल्कादायिनश्चत्वारः पञ्च वा सार्थ उपयातान् वणिजो लिखेयुः - के कुतस्त्याः कियत्पण्याः क्व चाभिज्ञानं मुद्रा वा कृता इति
अमुद्राणां अत्ययो देयद्विगुणः
कूटमुद्राणां शुल्काष्टगुणो दण्डः
भिन्नमुद्राणां अत्ययो घटिकास्थाने स्थानम्
राजमुद्रापरिवर्तने नामकृते वा स-पादपणिकं वहनं दापयेत्
ध्वजमूल उपस्थितस्य प्रमाणं अर्घं च वैदेहिकाः पण्यस्य ब्रूयुः एतत्प्रमाणेनार्घेण पण्यं इदं कः क्रेता इति
त्रिरुद्ध उषितं अर्थिभ्यो दद्यात्
क्रेतृसङ्घर्षे मूल्यवृद्धिः स-शुल्का कोशं गच्छेत्
शुल्कभयात् पण्यप्रमाण मूल्यं वा हीनं ब्रुवतः तद् अतिरिक्तं राजा हरेत्
शुल्कं अष्टगुणं वा दद्यात्
तद् एव निविष्टपण्यस्य भाण्डस्य हीनप्रतिवर्णकेनार्घापकर्षणे सारभाण्डस्य फल्गुभाण्डेन प्रतिच्छादने च कुर्यात्
प्रतिक्रेतृभयाद् वा पण्यमूल्याद् उपरि मूल्यं वर्धयतो मूल्यवृद्धिं राजा हरेत्, द्विगुणं वा शुल्कं कुर्यात्
तद् एवाष्टगुणं अध्यक्षस्यच् । छादयतः
तस्माद् विक्रयः पण्यानां धृतो मितो गणितो वा कार्यः, तर्कः फल्गुभाण्डानां आनुग्राहिकाणां च
ध्वजमूलं अतिक्रान्तानां चाकृतशुल्कानां शुल्काद् अष्टगुणो दण्डः
पथिक उत्पथिकाः तद् विद्युः
वैवाहिकं अन्वायनं औपायिकं यज्ञकृत्यप्रसवनैमित्तिकं देव इज्याचौल उपनयनगोदानव्रतदीक्षाऽऽदिषु क्रियाविशेषेषु भाण्डं उच्छुल्कं गच्छेत्
अन्यथावादिनः स्तेयदण्डः
कृतशुल्केनाकृतशुल्कं निर्वाहयतो द्वितीयं एकमुद्रया भित्त्वा पण्यपुटं अपहरतो वैदेहकस्य तच्च तावच्च दण्डः
शुल्कस्थानाद् गोमयपलालं प्रमाणं कृत्वाऽपहरत उत्तमः साहसदण्डः
शस्त्रवर्मकवचलोहरथरत्नधान्यपशूनां अन्यतमं अनिर्वाह्यं निर्वाहयतो यथाऽवघुषितो दण्डः पण्यनाशश्च
तेषां अन्यतमस्यानयने बहिरेव उच्छुल्को विक्रयः
अन्तपालः स-पादपणिकां वर्तनीं गृह्णीयात् पण्यवहनस्य, पणिकां एकखुरस्य, पशूनां अर्धपणिकां क्षुद्रपशूनां पादिकां, अंसभारस्य माषिकाम्
नष्टापहृतं च प्रतिविदध्यात्
वैदेश्यं सार्थं कृतसारफल्गुभाण्डविचयनं अभिज्ञानं मुद्रां च दत्त्वा प्रेषयेद् अध्यक्षस्य
वैदेहकव्यञ्जनो वा सार्थप्रमाणं राज्ञः प्रेषयेत्
तेन प्रदेशेन राजा शुल्काध्यक्षस्य सार्थप्रमाणं उपदिशेत् सर्वज्ञख्यापनार्थम्
ततः सार्थं अध्यक्षोऽभिगम्य ब्रूयात् इदं अमुष्यां उष्य च सारभाण्डं फल्गुभाण्डं च, न निहूहितव्यं, एष राज्ञः प्रभावः इति
निहूहतः फल्गुभाण्डं शुल्काष्टगुणो दण्डः, सारभाण्डं सर्वापहारः
राष्ट्रपीडाकरं भाण्डं उच्छिन्द्याद् अफलं च यत् ।
महा उपकारं उच्छुल्कं कुर्याद् बीजं च दुर्लभम्