श्लोक ०२-२०

Kautilya Arthashastra by Acharya Chankya
मानाध्यक्ष्यो देशकालमानं विद्यात्
अष्टौ परमाणवो रथचक्रविप्रुट्
ता अष्टौ लिक्षा
ता अष्तौ यूका
ता अष्टौ यवमध्यः
अष्टौ यवमध्या अङ्गुलम्
मध्यमस्य पुरुषस्य मध्यमाया अनुगुल्या मध्यप्रकर्षो वाऽङ्गुलम्
चतुर्ऽङ्गुलो धनुर्ग्रहः
अष्टाङ्गुला धनुर्मुष्टिः
द्वादशाङ्गुला वितस्तिः, छायापौरुषं च
चतुर्दशाङ्गुलं शमः शलः परीरयः पदं च
द्विवितस्तिररत्निः प्राजापत्यो हस्तः
स-धनुर्ग्रहः पौतवविवीतमानम्
स-धनुर्मुष्टिः कुष्कुः कंसो वा
द्विचत्वारिंशद्ऽङ्गुलः तक्ष्णः क्राकचनिककिष्कुः स्कन्धावारदुर्गराजपरिग्रहमानम्
चतुष्पञ्चाशद्ऽङ्गुलः कूप्यवनहस्तः
चतुर्ऽशीत्य्ऽङ्गुलो व्यामो रज्जुमानं खातपौरुषं च
चतुर्ऽरत्निर्दण्डो धनुर्नालिका पौरुषं च गार्हपत्यम्
अष्टशताङ्गुलं धनुः पथिप्राकारमानं पौरुषं चाग्निचित्यानाम्
षट्कंसो दण्डो ब्रह्मदेयातिथ्यमानम्
दशदण्डो रज्जुः
द्विरज्जुकः परिदेशः
त्रिरज्जुकं निवर्तनं एकतः
द्विदण्डाधिको बाहुः
द्विधनुःसहस्रं गोरुतम्
चतुर्गोरुतं योजनम्
इति देशमानम्
कालमानं अत ऊर्ध्वम्
तुटो लवो निमेषः काष्ठा कल्ला नालिका मुहूर्तः पूर्वापरभागौ दिवसो रात्रिः पक्षो मास ऋतुरयनं संवत्सरो युगं इति कालाः
द्वौ तुटौ लवः
द्वौ लवौ निमेषः
पञ्चनिमेषाः काष्ठाः
त्रिंशत्काष्ठाः कलाः
चत्वारिंशत्कलाः नालिका
सुवर्णमाषकाश्चत्वारश्चतुर्ऽङ्गुलायामाः कुम्भच्छिद्रं आढकं अम्भसो वा नालिका
द्विनालिको मुहूर्तः
पञ्चदशमुहूर्तो दिवसो रात्रिश्च चैत्रे चाश्वयुजे च मासि भवतः
ततः परं त्रिभिर्मुहूर्तैरन्यतरः षण्मासं वर्धते ह्रसते च इति
छायायां अष्टपौरुष्यां अष्टादशभागश्छेदः, षट्पौरुष्यां चतुर्दशभागः, त्रिपौरुष्यां अष्टभागः, द्विपौरुष्यां षड्भागः, पौरुष्यां चतुर्भागः, अष्टाङ्गुलायां त्रयो दशभागाः, चतुर्ऽङ्गुलायां त्रयोऽष्टभागाः, अच्छायो मध्याह्न इति
परावृत्ते दिवसे शेषं एवं विद्यात्
आषाढे मासि नष्टच्छायो मध्याह्नो भवति
अतः परं श्रावणादीनां षण्मासानां द्व्य्ऽङ्गुल उत्तरा माघादीनां द्व्य्ऽङ्गुलावरा छाया इति
पञ्चदशाहोरात्राः पक्षः
सोमाप्यायनः शुक्लः
सोमावच्छेदनो बहुलः
द्विपक्षो मासः
त्रिंशद्ऽहोरात्रः कर्ममासः
स-अर्धः सौरः
अर्धन्यूनश्चान्द्रमासः
सप्तविंशतिर्नाक्षत्रमासः
द्वात्रिंशद् बलमासः
पञ्चत्रिंशद् अश्ववाहायाः
चत्वारिंशद्धस्तिवाहायाः
द्वौ मासावृतुः
श्रावणः प्रौष्ठपदश्च वर्षाः
आश्वयुजः कार्त्तिकश्च शरत्
मार्गशीर्षः पौषश्च हेमन्तः
माघः फाल्गुनश्च शिशिरः
चैत्रो वैशाखश्च वसन्तः
ज्येष्ठामूलीय आषाढश्च ग्रीष्मः
शिशिराद्युत्तरायणम्
वर्षादि दक्षिणायनम्
द्व्य्ऽयनः संवत्सरः
पञ्चसंवत्सरो युगम् । इति
दिवसस्य हरत्यर्कः षष्टिभागं ऋतौ ततः ।
करोत्येकं अहश्छेदं तथा एव एकं च चन्द्रमाः
एवं अर्धतृतीयानां अब्दानां अधिमासकम् ।
ग्रीष्मे जनयतः पूर्वं पञ्चाब्दान्ते च पश्चिमम्