श्लोक ०२-१९

Kautilya Arthashastra by Acharya Chankya
पौतवाध्यक्षः पौतवकर्मान्तान् कारयेत्
धान्यमाषा दश सुवर्णमाषकः, पञ्च वा गुञ्जाः
ते षोडश सुवर्णः कर्षो वा
चतुष्कर्षं पलम्
अष्टाशीतिर्गौरसर्षपा रूप्यमाषकः
ते षोडश धरणं, शौम्ब्यानि वा विंशतिः
विंशतितण्डुलं वज्रधरणम्
अर्धमाषकः माषकः द्वौ चत्वारः अष्टौ माषकाः सुवर्णो द्वौ चत्वारः, अष्टौ सुवर्णाः दश विंशतिः त्रिंशत् चत्वारिंशत् शतं इति
तेन धरणानि व्याख्यातानि
प्रतिमानान्ययोमयानि मागधमेकलशैलमयानि यानि वा न उदकप्रदेहाभ्यां वृद्धिं गच्छेयुरुष्णेन वा ह्रासम्
षडङ्गुलाद् ऊर्ध्वं अष्टाङ्गुल उत्तरा दश तुलाः कारयेत् लोहपलाद् ऊर्ध्वं एकपल उत्तराः, यन्त्रं उभयतःशिक्यं वा
पञ्चत्रिंशत्पललोहां द्विसप्तत्य्ऽङ्गुलायामां समवृत्तां कारयेत्
तस्याः पञ्चपलिकं मण्डलं बद्ध्वा समकरणं कारयेत्
ततः कर्ष उत्तरं पलं पल उत्तरं दशपलं द्वादश पञ्चदश विंशतिरिति पदानि कारयेत्
तत आशताद् दश उत्तरं कारयेत्
अक्षेषु नान्दीपिनद्धं कारयेत्
द्विगुणलोहां तुलां अतः षण्णवत्य्ऽङ्गुलायामां परिमाणीं कारयेत्
तस्याः शतपदाद् ऊर्ध्वं विंशतिः पञ्चाशत् शतं इति पदानि कारयेत्
विंशतितौलिको भारः
दशधारणिकं पलम्
तत्पलशतं आयमानी
पञ्चपलावरा व्यावहारिकी भाजन्यन्तःपुरभाजनी च
तासां अर्धधरणावरं पलं, द्विपलावरं उत्तरलोहं, षड्ऽङ्गुलावराश्चायामाः
पूर्वयोः पञ्चपलिकः प्रयामो मांसलोहलवणमणिवर्जम्
काष्ठतुला अष्टहस्ता पदवती प्रतिमानवती मयूरपदाधिष्ठिता
काष्ठपञ्चविंशतिपलं तण्डुलप्रस्थसाधनम्
एष प्रदेशो बह्व्ऽल्पयोः
इति तुलाप्रतिमानं व्याख्यातम्
अथ धान्यमाषद्विपलशतं द्रोणं आयमानं, सप्ताशीतिपलशतं अर्धपलं च व्यावहारिकं, पञ्चसप्ततिपलशतं भाजनीयं, द्विषष्टिपलशतं अर्धपलं चान्तःपुरभाजनीयम्
तेषां आढकप्रस्थकुडुबाश्चतुर्भागावराः
षोडशद्रोणा खारी
विंशतिद्रोणिकः कुम्भः
कुम्भैर्दशभिर्वहः
शुष्कसारदारुमयं समं चतुर्भागशिखं मानं कारयेत्, अन्तःशिखं वा
रसस्य तु सुरायाः पुष्पफलयोः तुषाङ्गाराणां सुधायाश्च शिखामानं द्विगुण उत्तरा वृद्धिः
स-पादपणो द्रोणमूल्यं आढकस्य पाद ऊनः, षण्माषकाः प्रस्थस्य, माषकः कुडुबस्य
द्विगुणं रसादीनां मानमूल्यम्
विंशतिपणाः प्रतिमानस्य
तुलामूल्यं त्रिभागः
चतुर्मासिकं प्रातिवेधनिकं कारयेत्
अप्रतिविद्धस्यात्ययः स-पादः सप्तविंशतिपणः
प्रातिवेधनिकं काकणीकं अहरहः पौतवाध्यक्षाय दद्युः
द्वात्रिंशद्भागः तप्तव्याजी सर्पिषः, चतुःषष्टिभागः तैलस्य
पञ्चाशद् भागो मानस्रावो द्रवाणाम्
कुडुबार्धचतुर्ऽष्टभागानि मानानि कारयेत्
कुडुबाश्चतुर्ऽशीतिर्वारकः सर्पिषो मतः
चतुःषष्टिः तु तैलस्य पादश्च घटिकाऽनयोः