श्लोक ०२-१८

Kautilya Arthashastra by Acharya Chankya
आयुधागाराध्यक्षः साङ्ग्रामिकं दौर्गकर्मिकं परपुराभिघातिकं च यन्त्रं आयुधं आवरणं उपकरणं च तज्जातकारुशिल्पिभिः कृतकर्मप्रमाणकालवेतनफलनिष्पत्तिभिः कारयेत्, स्वभूमिषु च स्थापयेत्
स्थानपरिवर्तनं आतपप्रवातप्रदानं च बहुशः कुर्यात्
ऊष्म उपस्नेहक्रिमिभिरुपहन्यमानं अन्यथा स्थापयेत्
जातिरूपलक्षणप्रमाणागममूल्यनिक्षेपैश्च उपलभेत
सर्वतोभद्रजामदग्न्यबहुमुखविश्वासघातिसङ्घाटीयानकपर्जन्यकबाहु।ऊर्ध्वबाह्व्ऽर्धबाहूनि स्थितयन्त्राणि
पाञ्चालिकदेवदण्डसूकरिकामुसलयष्टिहस्तिवारकतालवृन्तमुद्गरगदास्पृक्तलाकुद्दालास्फाटिम उत्पाटिम उद्घाटिमशतघ्नित्रिशूलचक्राणि चलयन्त्राणि
शक्तिप्रासकुन्तहाटकभिण्डिपालशूलतोमरवराहकर्णकणयकर्पणत्रासिकादीनि च हुलमुखानि
तालचापदारवशार्ङ्गाणि कार्मुककोदण्डद्रूणा धनूंषि
मूर्वाऽर्कशनगवेधुवेणुस्नायूनि ज्याः
वेणुशरशलाकादण्डासननाराचाश्च इषवः
तेषां मुखानि छेदनभेदनताडनान्यायसास्थिदारवाणि
निस्त्रिंशमण्डलाग्रासियष्टयः खड्गाः
खड्गमहिषवारणविषाणदारुवेणुमूलानि त्सरवः
परशुकुठारपट्टसखनित्रकुद्दालक्रकचकाण्डच्छेदनाः क्षुरकल्पाः
यन्त्रगोष्पणमुष्टिपाषाणरोचनीदृषदश्चाश्मायुधानि
लोहजालिकापट्टकवचसूत्रकङ्कटशिंशुमारकखड्गिधेनुकहस्तिगोचर्मखुरश‍ृङ्गसङ्घातं वर्माणि
शिरस्त्राणकण्ठत्राणकूर्पासकञ्चुकवारवाणपट्टनाग उदरिकाः पेटीचर्महस्तिकर्णतालमूलधमनिकाकपाटकिटिकाऽप्रतिहतबलाहकान्ताश्चावरणाणि
हस्तिरथवाजिनां योग्याभाण्डं आलङ्कारिकं सम्नाहकल्पनाश्च उपकरणानि
ऐन्द्रजालिकं औपनिषदिकं च कर्म
कर्मान्तानां च - इच्छां आरम्भनिष्पत्तिं प्रयोगं व्याजं उद्दयम् ।
क्षयव्ययौ च जानीयात् कुप्यानां आयुध ईश्वरः