श्लोक ०२-१७

Kautilya Arthashastra by Acharya Chankya
कुप्याध्यक्षो द्रव्यवनपालैः कुप्यं आनाययेत्
द्रव्यवनकर्मान्तांश्च प्रयोजयेत्
द्रव्यवनच्छिद्रां च देयं अत्ययं च स्थापयेद् अन्यत्रापद्भ्यः
कुप्यवर्गः - शाकतिनिशधन्वनार्जुनमधूकतिलकसालशिंशपाऽरिमेदराजादनशिरीषखदिरसरलतालसर्जाश्वकर्णसोमवल्ककुशाम्रप्रियकधवादिः सारदारुवर्गः
उटजचिमियचापवेणुवंशसातिनकण्टकभाल्लूकादिर्वेणुवर्गः
वेत्रशीकवल्लीवाशीश्यामलतानागलताऽऽदिर्वल्लीवर्गः
मालतीमूर्वाऽर्कशणगवेधुकाऽतस्य्।आदिर्वल्कवर्गः
मुञ्जबल्बजादि रज्जुभाण्डम्
तालीतालभूर्जानां पत्त्रम्
किंशुककुसुम्भकुङ्कुमानां पुष्पम्
कन्दमूलफलादिरौषधवर्गः
कालकूटवत्सनाभहालाहलमेषश‍ृङ्गमुस्ताकुष्ठमहाविषवेल्लितकगौरार्द्रबालकमार्कटहैमवतकालिङ्गकदारदकाङ्कोलसारक उष्ट्रकादीनि विषाणि, सर्पाः कीटाश्च त एव कुम्भगताः विषवर्गः
गोधासेरकद्वीप्य्।ऋक्षशिंशुमारसिंहव्याघ्रहस्तिमहिषचमरसृमरखड्गगोमृगगवयानां चर्मास्थिपित्तस्नाय्व्ऽक्षिदन्तश‍ृङ्गखुरपुच्छानि, अन्येषां वाऽपि मृगपशुपक्षिव्यालानाम्
कालायसताम्रवृत्तकंससीसत्रपुवैकृन्तकारकूटानि लोहानि
विदलमृत्तिकामयं भाण्डम्
अङ्गारतुषभस्मानि, मृगपशुपक्षिव्यालवाटाः काष्ठतृणवाटाश्च । इति
बहिरन्तश्च कर्मान्ता विभक्ताः सार्वभाण्डिकाः ।
आजीवपुररक्षाऽर्थाः कार्याः कुप्य उपजीविना